SearchBrowseAboutContactDonate
Page Preview
Page 410
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ज्ञानमंजरी टीका. 3 व्या० - पापध्वंसिनीति - भो दक्ष । निष्कामे सर्वपरभावाभिलापरहिते 'पापध्वंसिनि' पापकर्मविनाशके आत्मस्वरूपे ज्ञानं स्वपरावयवभासकं तद्रूपे यज्ञे रतो भव तन्मयो भव । किं 'भूति - कामनया' इहलोकसुखेच्छया 'सावद्यैः पापसहितैः 'आविलैः ' म्लानैः यज्ञैः किं ? न किमपि न हिताय ते तत्करणं न युक्तं, आत्मस्वरूपो यागः तन्मयैकत्वपरिणतिः कर्माभावकरी तेन तत्र यतितव्यम् ॥ २ ॥ वेदोक्तत्वान्मनः शुद्ध्या, कर्मयज्ञोऽपि योगिनः । ब्रह्मयज्ञ इतीच्छंतः, श्येनयागं त्यजति किम् ? ॥३॥ Acharya Shri Kailassagarsuri Gyanmandir व्या० - वेदोक्तत्वादिति - वेदोक्तत्वात् मनः शुद्ध्या कर्मयज्ञोऽपि ब्रह्मयज्ञ इति इच्छंतः श्येनयागं किं त्यजति ? इति स्वमतकल्पनां कुर्वेति मूढाः ते निषेधनीयाः, नहि संसारकामनया हिंसा सुखकरी भवति, साध्यशुद्धिमंतरेण न प्रयासो हिताय, अतो नैव कर्तव्यं इति ॥ ३ ॥ ब्रह्मयज्ञः परं कर्म, गृहस्थस्याधिकारिणः । पूजादि वीतरागस्य, ज्ञानमेव तु योगिनः ॥ ४ ॥ · व्या० - ब्रह्मयज्ञ इति - 'गृहस्थस्य' सावद्यप्रवृत्तस्य 'अधिकारिणः' योग्यस्य न्यायोपार्जितादिवित्तवतः वीतरागस्य पूजादिकर्मकरणं परं उत्कृष्टं ब्रह्मयज्ञ इति ज्ञेयं, संवराभावे आस्रवाणां परावृत्तिः प्रशस्तकरणं युक्तं । उक्तं च- ३८५. For Private And Personal Use Only 1 अकसिणपवत्तगाणं, विरयाविरयाण एस खलु जुत्तो । संसारपयणुकरणे, दव्वथये कूवदितो ॥ १ ॥ इति रागपापस्थानस्य प्रशस्तताकरणोपदेशः । आगमे सर्वा 49 १९७
SR No.008661
Book TitleShrimad Devchandra Part 1
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year
Total Pages1084
LanguageHindi
ClassificationBook_Devnagari, Philosophy, & Worship
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy