________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नियागाष्टकम्
mmar
AAAAAAAAAAAAAAAAAAAAAAAA.
सर्वज्ञो भूत्वा अयोगीमूय सिद्धो भवति । अतः क्रमसमासाधना श्रेयस्करी ।
इति व्याख्यातं योगाष्टकम् ॥२७॥
अथ नियागाष्टकम् ॥ २८ ॥ 'नियागः कर्मदहनं तत्र 'नितरां' निश्चयेन 'यागः' यजनं नियागः । उक्तं च---"सुसंवुडा पंचहिं संवरहिं इह जीवियं अणवकंखमाणा वोसट्टकाया सुईचत्तदेहा महाजयं जयति जन्नसेह॥१॥के ते जोइ केव ते जोईठाणा का तेसु या किंचतेकारसंगं पहायते कयरा संति भिक्खू कयरेण होमेण हुणासिजोइं ॥२॥ तवो जोई जीवो जोइ ठाणंजोगासुआसरीरं करीसंगं कम्मपहा संजमजोगसंतिहोमहुणाभिइसिणं पसत्थं ॥ ३ ॥” उत्तराध्ययने नियागपहिवत्ते, श्रीआचासंगसूत्रे नियुक्तितः निक्षेपादिकं ज्ञेयं तत्स्वरूपं निवेदयतियः कर्म हुतवान् दीते, ब्रह्माग्नौ ध्यानध्यायया। स निश्चितेन यागेन, नियागप्रतिपत्तिमान ॥१॥
व्या०-यः कर्मेति यः ब्रह्माग्नौ आत्मस्वरूपैकत्वरूपाग्नौ ध्यानध्यायया ध्यानधनेन दीप्ते सति कर्म ज्ञानावरणादिकं 'हुतवान्' होमं कृतवान् स मुनिः 'निश्चितेन' आभ्यंतरेण यागेन सम्यग्दर्शनज्ञानचारित्रैकत्ववीर्यतीक्ष्णत्वरूपेण युक्तः नियागप्रतिपत्तिमान् उच्यते ॥ १ ॥ पापध्वंसिनि निष्कामे, ज्ञानयज्ञे रतो भव।
द्यैः कर्मयज्ञैः किं ?, भूतिकामनयाविलैः॥२॥
For Private And Personal Use Only