SearchBrowseAboutContactDonate
Page Preview
Page 406
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ज्ञानमंजरी टीका. द्विप्रकार ज्ञेयं, एकं रूपि, अपरं अरूपि, तत्र रूप्यालंबनंजिनमुद्रादिकपिंडस्थपदस्थपर्यंतं, यावदर्हदवस्थालंबनं तावत्कारणावलंबनं शरीरातिशयोपेतं रूप्यवलंबनं, तत्र अन्नादिपरभावशरीरधनस्वजनावलंबी, परस्त्र परिणतचेतनविश्वैश्वर्याद्यर्थ तीर्थकराद्यवलंबनमपि भवहेतुः, तथैव यः स्वरूपानंदपिपासितः स्वरूपसाधना प्रथमकारणरूपं जिनेश्वरं वीतरागादिगुणसमूहैः अवलंबते, यावत् मुद्राद्यावलंबनी तावत् रूप्यवलंबनी, स एव अर्हत्सिद्धस्वरूपं ज्ञानदर्शनचारित्राद्यनंतपर्यायविशुद्धशुद्धाध्यात्मधर्म अवलंबते, इति अरूप्यालंबनी, तत्र भाव्यते अनादितो जीवो मूर्तपुद्गलस्कंधावलंबपरिणतः कथं ? प्रथमत एवामूनिंदरूपं स्वरूपमवलंबते अतः अतिशयोपेतवीतरागमुद्रादिकं परं मूर्त चालंब्य विषयकषायवृद्धिकरं स्त्रीधनाद्यवलंबनं त्यजति, इत्येका परावृत्तिः, पुनः स एव अतिशयादिरूपमूर्तावलंबनीयः, अहं तु अमूर्तभावरसिकत्वेनोपयुज्यते, अद्यापि अर्हतः संबद्धं तथापि औदयिकं नालंबन, मम तु गुणावलंबिनी मूर्त्तान् भवान् न रसिकत्वेन गृह्णाति, सापेक्षः परत्वेन पश्यति इति द्वितीया परावृत्तिः । एवं अमूर्तात्मगुणरसिको भवति तेन परमेष्ठिस्वरूपकारणेनावधार्य स्वकीयासंख्यप्रदेशव्याप्यव्यापकभावावच्छिन्नद्रव्यास्तिकपर्यायास्तिकानंतस्वभावममलामूर्त्तानंदमयं ध्येयत्वेनालंबते, इति किं तृतीया परावृत्तिः, इति साधनपद्धतिः सर्वेषां तत्स्वरूपसाधनं अरूपिगुणाः सिद्धमुणाः तेषां भावनं सायुज्यं तदात्मता, तया योगः, आत्मोपयोगयोजनं यद्यपि ईषदवलंबनं श्रुतादीनां, तथापि अनालंबनमेव यः उत्कृष्टो योगः, उक्तं च “पाठकः तत्राप्रतिष्ठितः खलु यतः प्रवृत्तश्चलत्यतस्तत्र सर्वोत्तमा भुजः तेनानालंबनोज्झितः ॥ ६॥ निरालंबनयोगेन धारावाही प्रशांतवाहिता नाम चित्तं तस्य १९३ For Private And Personal Use Only
SR No.008661
Book TitleShrimad Devchandra Part 1
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year
Total Pages1084
LanguageHindi
ClassificationBook_Devnagari, Philosophy, & Worship
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy