SearchBrowseAboutContactDonate
Page Preview
Page 382
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ज्ञानमंजरी टीका. स्थैर्ये भवभयादेव, व्यवहारे मुनिर्ब्रजेत् । स्वात्मारामसमाधौ तु तदप्यन्तर्निमज्जति ॥ ८ ॥ ३५७ ब्या० - स्थैर्य भवेति- मुनिः तत्त्वज्ञानी 'भवभयात्' नरकनिगोददुःखोद्वेगात् एव व्यवहारे एषणादिक्रियाप्रवृत्तौ स्थैर्य व्रजेत गच्छेत्, लभेत स्वात्माराम समाधौ स्वकीयात्मारामः स्वचेतनः, तस्य समाधौ ज्ञानानंदादिषु तद् भवभयं अंतर्मध्ये निमज्जति लयीभवति, स्वएव विनश्यति आत्मध्यानलीलालीनानां सुखदुःखे समानावस्थानां भयाभाव एव भवति, इत्यनेन संसारोद्विग्नः प्रथमज्ञानदर्शनचारित्राचाराभ्यासतो दृढीकृतयोगोपयोगः स्वरूपानंतस्याद्वादतच्चैकत्वसमाधिस्थः सर्वत्र समावस्थो भवति, “मोक्षे भवे च सर्वत्र निःस्पृहो मुनिसत्तमः" इति एवं स्वरूपलीनसमाधिमग्नानां निर्भयत्वं इति वस्तुस्वरूपावधारणेन विभावोत्पन्नकर्मोदयलक्षणे संसारे परसंयोगसंभवे आत्मससामिने निर्वेदः कार्यः ॥ ८ ॥ इति व्याख्यातं भवोद्वेगाष्टकम् ॥ २२ ॥ For Private And Personal Use Only अथ लोकसंज्ञात्यागाष्टकम् ॥ २३ ॥ अथ निर्वेदी जीवः मोक्षसाधनोद्यमवर्त्ती लोकसंज्ञायां न मुह्यति, लोकसंज्ञा हि धर्मसाधनव्याघातकरा तैस्त्याज्या, इति तदुपदेशरूपं लोकसंज्ञात्यागाष्टकं विस्तार्यते । लोकः सप्तविध:नामलोकः शब्दालापरूपः, स्थापनालोकः अक्षरः लोकनालियंत्रन्यासरूपः, रूप्यजीवाजीवात्मकः द्रव्यलोकः, ऊर्ध्वाधस्तिर्य ग्लक्षणः क्षेत्रलोकः, समयावल्यादिकालपरिमाणलक्षणः काललोकः नरनारकादिचतुर्गतिरूपः भवलोकः, औदयिकादिभावपरिणामः १६९
SR No.008661
Book TitleShrimad Devchandra Part 1
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year
Total Pages1084
LanguageHindi
ClassificationBook_Devnagari, Philosophy, & Worship
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy