SearchBrowseAboutContactDonate
Page Preview
Page 335
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३१० माध्यस्थ्याष्टकम् - द्वेषाभावेन अंतरात्मना साधकात्मना साधकत्वे अनुपालंभं स्थीयतां मध्यस्थस्य स्वभावोपघातरूपोपालंभः ॥ १ ॥ मनो वत्सो युक्तिगवीं, मध्यस्थस्यानुधावति । तामाकर्षति पुच्छेन, तुच्छाग्रहमनः कपिः ॥ २ ॥ व्या० - मनो वत्स इति - मध्यस्थस्य मनो वत्सः चित्तमित्यर्थः, युक्तिगवीं यथार्थवस्तुस्वरूपविभजनोपपत्तिः युक्तिः सा एव गौः तां युक्तिगवीं; अनुधावति अनुगच्छति पक्षपाताभावात् यथार्थोपयोगता एव भवति । तां सम्यग्ज्ञानतां गावं तुच्छाग्रहमनः कपिः तुच्छः स्याद्वादोत्सर्गापवादानयनतोपयोगशून्यः मनसः ग्रहः कदाग्रहः तन्मयं मनो यस्य स कपिः वानरः पुच्छेन आकर्षति गतिस्खलनाय भवतिः न तादृग् यथार्थयुक्तिः प्रसरति कदाग्रहमनसां पक्षदृष्टिरेव न तच्वदृष्टिरिति ॥ २ ॥ नयेषु स्वार्थसत्येषु, मोघेषु परचालने । समशीलं मनो यस्य, स मध्यस्थो महामुनिः ॥३॥ व्या० - नयेषु इति स महामुनिः मध्यस्थ उच्यते, यस्य नयेषु समशीलं नयांतरोक्तवस्तुधर्मेषु तत्प्रवर्त्तनेषु मनः समभावलक्षणं स्वपक्षपातरहितं भूतेषु नयेषु स्वार्थसत्येषु, स्वस्य अर्थः स्वार्थः, तस्मिन् सत्येषु स्वाभिमतस्थापन कुशलेषु परचालने परस्थापने मोघेषु निष्फलेषु, परपक्षस्थापनासत्येषु स्वमतस्थापने वीरेषु यः शमः इष्टानिष्टतारहितोपयोगः यथार्थविभजनशीलः स मुनिः मध्यस्थः । नयस्वरूपं गीयते - अनेकधर्म कदंब कोपेतस्य वस्तुनः एकेन धर्मेणोन्नयनमवधारणात्मकं वस्तुनः एकांशपरिच्छेदकं ज्ञानं नयव्यपदेशमा स्कंदति । नयस्य १२२ For Private And Personal Use Only
SR No.008661
Book TitleShrimad Devchandra Part 1
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year
Total Pages1084
LanguageHindi
ClassificationBook_Devnagari, Philosophy, & Worship
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy