________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
विवेकाष्टकम्.
कुंभस्य चिकीर्षतो मृन्मयक्कुंभः तद् बुद्धयावलंबनतया कारणं भवत्येव न च वक्तव्यमखिन्नत्वादसत्तन्नासौ तबुझेरपि कथमालंबनं स्याद् द्रव्यरूपतया तस्य सर्वदा सत्त्वादिति । ननु य एवेह मृन्मयकार्यरूमो घटः तस्यैव कारणं चिंत्यते इति प्रस्तुतं बुद्धयवसितस्तु तस्मादन्य एवेति तत्कारणामिधानमप्रस्तुतमेव । सत्यं भाविनि भूतवदुपचारन्यायेन तयोरेकत्वाध्यवसानाददोषः स्थासकोशादिकारणकालेऽपि हि किं करोषीति पृष्टः कुंभकारः कुंभ करोमीत्येवं वदति बुद्ध्यवसितेन निष्पन्नस्यैकत्वाध्यवसायादिति। अथवा-भव्यो योग्यः स्वरूपलाभस्येति शक्य उत्पादयितुमतः सुकरत्वात्कार्यमप्यात्मनः कारणमिष्यते; अवश्यं च कर्मणः कारणत्वमिष्टव्यं यतः तस्मात् समस्तकारणसंनिधानेऽपि नैव कोशार्थमारंभः किंतु विवक्षितः कार्यार्थमतस्तदविनाभावित्वात तत्क्रियायाः कार्यमप्यात्मनः कारणमिति । एतदेव भावयति बाह्यानि कुलाल चक्रधीवरादीनि यानि निमित्तानि तदपेक्षक्रियमाणकाले तरंगबुद्धयालोचितं कार्य भवति, स्वस्यात्मनः कारणं स्वकारणं मान्यथा, यदि बुद्धया पूर्वसंपर्यालोचितमेव कुर्यात् तदा प्रेक्षापूर्व शून्यमनस्कारभावपर्यायो भवेत् घटकारणसंनिधावष्यन्यत् 'किमपि शरावादि कार्य भवेदभावो वा भवेन्न किंचित्कार्य भवेदिस्यर्थः। तस्माद् बुद्धयवसितं कार्यमप्यात्मनः कारणमेवेष्टव्यं । किं बहुना ! यत्र यत्र यथा यथा युक्तितो घटते तथा तथा सुधिया कर्मणः कारणत्वं वाच्यं; अन्यथा कर्मणः कारकत्वे करोतीति कारकमिति घण्णां कारकत्वानुपपत्तिरेव स्यादिति ।
दे स जस्स तं संपयाणमियतंपि कारणं तस्स । होई तदत्थिता तु कीरए लं विणा जं सो ॥१॥ स अमिनवपर्यायो यस्य देयः स तं प्रति संप्रदानं, सदपि
For Private And Personal Use Only