SearchBrowseAboutContactDonate
Page Preview
Page 325
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ३०० www.kobatirth.org विवेकाटकम् Acharya Shri Kailassagarsuri Gyanmandir विवेकः शब्दादिनयत्रयेण विभावविभजनक्षयोपशमसाधनोपयोगादिक्षायिक साधक परिणतिविवेकः इति यथाक्रममवगंतव्यं । तत्रामनः कर्मसंयोगैकत्वं विवेचयन्नाह - कर्म जीवं च संश्लिष्ट, सर्वदा क्षीरनीरवत् । विभिन्नीकुरुते योऽसौ, मुनिहंसो विवेकवान् ॥ १ ॥ कर्म जीवं च इति-कर्म ज्ञानावरणादिकं जीवं च सच्चिदानंदरूपं 'सर्वदा' सर्वकालं क्षीरं पयः नीरं जलं तद्वत् 'संश्लिष्ट एकीभूतं यः 'विभिन्नीकुरुते' लक्षणादिभेदैः पृथक् पृथक् कुरुते असौ : मुनिहंसः 'विवेकवान्' भेदज्ञानवान् जीवो नित्यः, पुद्गल - संगा अनित्याः; जीवोऽमूर्त्तः, पुद्गला मूर्त्ताः जीवोऽचलः, पुद्गलाः चलाः; जीवो ज्ञानाद्यनंतचेतनालक्षणः, पुद्गला अचेतनाः; जीवः स्वरूपकर्त्ता, स्वरूपभोक्ता, स्वरूपरमणाभावविश्रांतः, पुद्गलाः कर्तृत्वादिभावरहिताः; इत्यादिलक्षणैः विभज्य यो विरक्तः स मुनिः श्रमणो विवेकवान् विवेकयुक्त इति ज्ञेयम् ॥ १ ॥ देहात्माद्यविवेकोऽयं सर्वदा सुलभो भवे । भवकोट्यापि तद्भेद- विबेकस्त्वतिदुर्लभः ॥ २ ॥ देहात्मा इति - आत्मा त्रिविध:- बाह्यात्मा १ अन्तरात्मा २ परमात्मा ३ चेति, यस्य देहमनोवचनादिषु आत्मत्वभासः, देह एवात्मा एवं सर्वपौगलिक प्रवर्त्तनेषु आत्मनिष्ठेषु आत्मत्वबुद्धिः सबाह्यात्मा १ मिथ्यादृष्टिः एषः, पुनः सकर्मावस्थायामपि आत्मनि ज्ञानाद्युपयोगलक्षणे शुद्धचैतन्यलक्षणे महानंदस्वरूपे निर्विकारा मृताव्याबाधारूपे समस्तपरभावमुक्ते आत्मबुद्धिः अंतरात्मा सम्यगदृष्टिगुणस्थानकतः क्षीणमोहं यावत अंतरात्मा उच्यते ११२ For Private And Personal Use Only
SR No.008661
Book TitleShrimad Devchandra Part 1
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year
Total Pages1084
LanguageHindi
ClassificationBook_Devnagari, Philosophy, & Worship
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy