SearchBrowseAboutContactDonate
Page Preview
Page 324
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ज्ञानमंजरी टीका. AAAAAAAAAAAAAAPARAN इत्यनेन मिथ्यात्वतिमिरध्वंसे जाते सम्यग्दृष्टयः आत्मानं आत्मनि पश्यंति, अत एव अनेकोपयोगेन श्रुताभ्यासेन आत्मस्वरूपोपलंभाय तत्त्वपरीक्षणाय यतितव्यं, यथार्थ आत्मस्वरूपपरिज्ञानं विद्या परमोपकारिणी इति ज्ञेयं ॥८॥ इति चतुर्दशं विद्याष्टकम् ॥ १४ ॥ अथ विवेकाष्टकम् ॥ १५॥ सा च तत्त्वविद्या विवेकेन-स्वपरविभजनन स्फुटीभवति, अतो विवेकस्याभ्यासः कर्त्तव्यः, तत्र विवेचनं हेयोपादेयपरीक्षणं विवेकः, नामस्थापनाविवेकौ सुगमौ, द्रव्यविवेकः लौकिकः धनोपार्जनराजनीतिकुलनीतिदक्षस्य भवति, लोकोत्तरस्तु धर्मनीतिदक्षस्य भवति, भावतो विवेकः बाह्यः स्वजनधनतनुरागविभजनरूपः, आभ्यंतरश्च ज्ञानावरणादिद्रव्यकर्माशुद्धचेतनोत्पन्नविभावितादिभावकमैकत्वविभजनरूपः, तत्स्वरूपश्चायं. आगमें" पुष्विं रागाश्या विभावा सबओ विभजिज्जा पच्छा. दवा कम्मा सबविमिन्नो नियो अप्पा ॥१॥" तथा च प्रामृते' समस्तकाचशकलव्यू हपतितं रत्नं परीक्षको गृह्णाति एवं सम्यग्दृष्टिः सर्वविभावपरभावपरिणतमध्यस्थं आत्मानमचलमखंडमव्ययं ज्ञानानंदमयं स्वत्वेन विभज्य उपादत्ते' । श्रीहरिभद्रपूज्यैश्च प्रथम क्रुद्धादिदोषोपशमे मार्गानुसारिगुणैः तत्त्वजिज्ञासा, तत्त्वज्ञगुरुसेवनतः अतिमधुरत्वेन श्रुतरसिकः यथार्थजीवाजीवविवेचनतः सर्वपरभावमिन्नमात्मानमुपलभ्य भेदज्ञानी भवति, स च क्रमेणात्मनः परं त्यजन् सर्वपरभावत्यागी सिद्धयति, तत्राधनयत्रयेण लौकिकलोकोत्तरविवेकः । ऋजुत्रनयेन धर्मसाधन For Private And Personal Use Only
SR No.008661
Book TitleShrimad Devchandra Part 1
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year
Total Pages1084
LanguageHindi
ClassificationBook_Devnagari, Philosophy, & Worship
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy