SearchBrowseAboutContactDonate
Page Preview
Page 303
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २७८ निःस्पृहाष्टकम् दानदायका अपि चरंति गोचरी, मृदुनवनीतकुसुमशय्याशायिनोऽपि, शेरते घातोपलशिलाभूमौ एकात्मतत्त्वसहजस्वभावामूर्त्तानंदलीलालुब्धा ज्ञानक्रियाभ्यासतः, साधयंति निरावरणात्यतिकैकांतिकनि वैद्वनिरामयाविनाशि सिझस्वरूपं एतत्साधनोद्यताय भगवते नमः ॥८॥ इति व्याख्यातं निर्लेपाष्टकम् एकादशमम् ॥ अथ निर्लेपत्वदृढीकरणाथै निःस्पृहत्वं विस्तार्यते, तत्र निःस्पृहत्वं सर्वपरभावानमिलाषरूपं, इच्छा मूर्छानिरावरणं, स्पृहा नाम इच्छा, तदभावो निःस्पृहत्वं, तत्र नामनिःस्पृह उल्लापरूपः, स्थापनानिःस्पृहो मुनिप्रतिमादिः, द्रव्यनिःस्पृह इहपरत्राधिकामिलाषेन अल्पानिच्छकः अथवा भावधर्मास्वादनमंतरेण तत्स्वरूपापरज्ञानेन धनादिषु अनिच्छुश्च तावनिःस्पृहः अप्रशस्तः वेदांतादिकुतीर्थोपदेशेन एकांतमुक्तिरक्तः, धनादिषु निःस्पृहः स प्रशस्तः, स्याद्वादैकांतपरीक्षापरिच्छिन्नात्मतत्त्वानुभवरुचिपिपासिताः सर्वमपि हेयीकुर्वति परभावं, भवंति स्वरूपलालितचेतसः, तत्र साधनार्थ आदिनयचतुष्टयेन. सिद्धत्वं नयत्रयेण तथा जीवाजीवे निःस्पृहः नैगमेन अजीवे निस्पृहः संग्रहव्यवहाराभ्यां, ऋजुसूत्रेण स्वभोग्यभोज्येषु, शब्दसमभिरूढाभ्यां सन्निमित्तपरायतसाधनपरिणामेषु, एवंभूतेन आत्मीयसाधनपरिणामापन्नभेदज्ञानसविकल्पचरणशुक्लध्यानशैलेषीकरणादिषु निःस्पृहः। अत्र आद्यनयचतुष्टयनिःस्पृहस्यावसरः । भावना च अनादौ संसारे स्पृहाकुलितेर्बहुशः प्राप्तं दुःखलक्षं तेन परभावस्पृहानिरीहेन भवितव्यंस्वभावलाभात्किमपि, प्राप्तव्यं नावशिष्यते। इत्यात्मैश्वर्यसम्पन्नो, निःस्पृहो जायते मुनिः॥१॥ For Private And Personal Use Only
SR No.008661
Book TitleShrimad Devchandra Part 1
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year
Total Pages1084
LanguageHindi
ClassificationBook_Devnagari, Philosophy, & Worship
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy