________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२५६
विलेपारका.
AAAAAAAAPuAJANAMAAJAvadhan
-
व्या०-अलिप्त इति-निश्चयरूपेण नयेन स्वरूपेण जात्या इत्यर्थः आत्मा चेतनः अलिप्तः पुद्गलाश्लेषरहितः. च पुनः ध्यवहारतः बाह्यतमप्रवृत्तिसोपाधिकत्वतः अयं आत्मा लिप्तः अतः परसंसर्गजन्यव्यवहारत्यागे यतितव्यं, अत एव अलिप्सया दशा शुद्धचिदानन्दावलोकनात्मकया आत्मानं आत्मतया परं च परतया अरक्तादिष्टदृष्ट्या ज्ञानी वेद्यसंवेदकः स्वसंवेदज्ञानी शुद्धयति सुद्धो भवति सर्वविभावमलापगमनेन निर्मलो भवति । अन्यः क्रियावान, लिलया दृशा लिप्तोऽहं अशुद्धाचरणैः तेन शुद्धाचरणेन पूर्वप्रकृतीः क्षपयित्वा अभिनवाकरणेन आत्मानं मोचयामि इति दृष्ट्या क्रियां वंदननमनादिकां कुर्वन शुद्धयति निर्मलो भवति इति निश्चयब्यवहारगौणमुख्यवतां साधनक्रमः ॥ ६॥ ज्ञानक्रियासमावेश-सहैवोन्मीलने द्वयोः । भूमिकाभेदतस्त्वत्र, भवेदेकैकमुख्यता ॥७॥ ___ व्या-ज्ञान इति-द्वयोः दृष्टयोः उन्मीलने उद्घाटने सहैव समकालमेव नहोकांतज्ञानरुचिः सम्यग्दर्शनी, न टेकांतक्रियारुषिः सम्यग्दर्शनी, किंतु सापेक्षदृष्टिरेव सम्यगदर्शनी, अतः ज्ञानक्रियासमावेशः उभयोः संयोग एवं साधनत्वेन निर्धायः तत्र कचवरसमन्वितमहागृहशोधनप्रदीपपुरुषादिव्यापारवदिह जीवः स्वरूपकर्मकचवरमृतस्वरूपशोधनालंबनो ज्ञानादिना स्वभावभेदव्यापारोऽक्सेयः । तत्रोक्तं श्रीआवश्यकनियुक्तौ-- - नाणं पगासगं सोहगो, तवो संजमो उ गुत्तिकरो । तिणंपि समाओगे, मुक्खो जिणसासणे भणिओ ॥१॥
तथाप्युपदेशपदप्रकरणे-"क्रियाकृतकर्मक्षयः मंडूकचूर्णतुल्यः, ज्ञानकृतकर्मश्रयस्तभस्मकल्प एव ज्ञातन्यः। तु पुनः या च एकै
For Private And Personal Use Only