SearchBrowseAboutContactDonate
Page Preview
Page 285
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २६० क्रियाष्टकम् रूपां क्रियां आश्रयति, केवलज्ञानी सर्वसंवरपूर्णानंदकार्यावसरे योगरोधरूपां क्रियां करोति, अत एव उच्यते ज्ञानी क्रियां अपेक्षते, एवं तदर्थमेव आवश्यककरणं मुनीनां तत्र दृष्टांतः यथा प्रदीपः स्वप्रकाशोऽपि तैलपूर्त्यादिकां क्रियां अपेक्षते एवं सम्यगज्ञानी अपि क्रियारंगी भवति, क्रिया हि वीर्यशुद्धिहेतुः अशुद्धवीर्यविहितास्रवः संसरति संसारे, स एव गुणी सेवनगुणप्राग्भावोद्यतः संवरीभवति, कर्मप्रदेशग्रहणं योगैः, योगा वीर्यप्रभवाः, तेन योगाः परमात्मवन्दनस्वाध्यायाध्ययनादियोजिताः न कर्मग्रहणाय भवन्तिः योगानां सत्प्रवृत्तिः क्रिया इति ॥ ३ ॥ बाह्यभावं पुरस्कृत्य ये क्रियां व्यवहारतः । वदने कवलक्षेपं, विना ते तृप्तिकाङ्क्षिणः ॥ ४ ॥ व्या० - बाह्यभावमिति - बाह्यभावं बाह्यत्वं पुरस्कृत्य अंगीकृत्य ये नरा असेवितगुरुचरणा व्यवहारतः क्रियां निषेधयंति “किं बाह्य क्रियाकरणेन" १ इति उक्त्वा क्रियोद्यमं मंदयंति ते नरा वदने मुखे कवलक्षेपं विना तृप्तिकांक्षिणः तृप्तिवांछका इति ॥४॥ गुणवद्बहुमानादे- र्नित्यस्मृत्या च सत्क्रिया । जातं न पातयेद् भाव - मजातं जनयेदपि ॥ ५ ॥ " व्या० - गुणवदिति - सम्यग्दर्शनज्ञानचारित्रक्षमामार्दवार्जवादिगुणवंतः तेषां बहुमानं स्वतोऽधिकगुणवतां बहुमानं आदिशब्दात् दोषपश्चात्ताप, पापदुगंछातिचारालोचनं देवगुरुसाधर्मिकभक्तिः, उत्तरगुणारोहणादिकं सर्व ग्राह्यं च पुनः नित्यस्मृतिः पूर्वगृहीतव्रतस्मरणं, अभिनव प्रत्याख्यानसामायिकचतुर्विंशतिस्तवगुरुवंदनप्रतिकमणकायोत्सर्गप्रत्याख्यानादीनां नित्यस्मृत्या सत्क्रिया भवति । अत्र गाथा श्रीहरिभद्रपूज्यविंशतिकायां 9 ७२ For Private And Personal Use Only
SR No.008661
Book TitleShrimad Devchandra Part 1
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year
Total Pages1084
LanguageHindi
ClassificationBook_Devnagari, Philosophy, & Worship
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy