SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ज्ञानमंजरी टीका. २३९ लभते च सकलामलकेवलज्ञानं केवलदर्शनं परमदानादिलब्धीः , अत एव क्षायौपशमिकज्ञानी यं न प्राप्नोति तं परमशमान्वितः प्राप्नोति अत अव धीरा दर्शनज्ञाननिपुणा अभ्यस्यंति पूर्वाभ्यास, आश्रयंति गुरुकुलवासं, रमंते निर्जने वने, तेन आत्मविशुद्धयर्थी शमपूरणे उद्यतते ॥५॥ स्वयम्भूरमणस्पर्धि-वद्धिष्णशमतारसः। मुनिर्येनोपमीयेत, कोऽपि नासौ चराचरे ॥६॥ व्या०-स्वयंभू इति-स्वयंभूरमणः अर्द्धरज्जुप्रमाणः प्रांतसमुद्रः, तस्य स्पर्डी स्पर्धाकारी, वर्द्धिष्णुः वर्द्धमानः, शमतारसः, शमता रागद्वेषाभावः तस्या रसो यस्य स एवंविधो मुनिः, त्रिकालाविषयी, अतीतकालरमणीयविषयस्मरणाभाववान् , वर्तमानेंद्रियगोचरप्राप्तविषयरमणाभाववान् , अतीतकालमनोज्ञविषयेच्छाऽभाववान् मुनिः, येन उपमानेन उपमीयते चराचरे विश्वे असौ कोऽपि न जगति, यतस्तत्सर्व अचेतनपुद्गलस्कंध मूर्त च, तत् समतारसेन सहजात्यंतिकनिरुपमचरितशमभावस्वरूपेण कथं उपमीयते दुर्लभो हि शमतारसः विश्वविश्वशुभाशुभभावे परत्वेन अरक्तद्विष्टतयावृत्तिः शुद्धात्मानुभवः । उक्तं चवंदिजमाणा न समुल्लसंति, हेलिज्जमाणा न समुज्जलंति । दंतेण चित्ते न चलंति धीरा, मुणी समुग्घाइयरागदोसा ॥१॥ बालाभिरामे सु दुहावलेसु, न तं सुहं कामगुणेसु रायं । विरत्तकामाण तवोधणाणं, जं भिरकुणो सीलगुणे रयाणं ॥२॥ For Private And Personal Use Only
SR No.008661
Book TitleShrimad Devchandra Part 1
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year
Total Pages1084
LanguageHindi
ClassificationBook_Devnagari, Philosophy, & Worship
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy