SearchBrowseAboutContactDonate
Page Preview
Page 442
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १.१६ पक्षपातरतोदेवो न दृष्टो न श्रुतोऽपि वा । तथाऽपि देवतोद्देशं, विधायोद्धतसंगतिः ।। २९४ ॥ कर्मणा जायते जन्तुः कर्मणा प्रविलीयते । । तस्मात्कर्मप्रधानेयं, विधातुः सृष्टिरुच्यते ।। २९५ ॥ नीतिमात्रमपिक्षोभ्यं वचनं किमु जल्पितम् । सर्वधर्ममयं लोके, पूजनीयमनर्थदम् ॥ २९६ ॥ अजडो जडनेव विन्दति, सुसती निन्दति कामिनीं कुशीलाम् । सुजनोऽतितरां कुमार्गगं, भिषजां निन्यतमो निरामयः २९७ करुणा जनमानसंस्थिता, सुखदा साधुजनेन संमता । कलुषं हृदयं विनिर्मितं, परलोकेऽप्यरतिपदं मतम् ॥ २९८ ॥ विवादेषु रताः केचित्पर्यन्ति जनान्तिके । तत्त्वबुद्धिरताः स्तोका दृश्यन्ते विगतक्लमाः || २९९ ॥ सारमात्रमपिग्राह्यं वचनं वालभाषितम् । गुणग्राह्याः कुतो लुब्धा - विशेषवक्तृमानवे ।। ३०० ॥ गुणएव सदा ग्राद्यो यत्र कुत्र स्थितोऽपि वा । गुणेन शस्यते देही, न तु जातिप्रभावतः ।। ३०१ ॥ गुणिनां सङ्गमात्रेण, जडोऽपि बुद्धिमान् भवेत् । गुणहीनो धनुर्दण्डो, निष्फलः साध्यसाधने || ३०२ ।। For Private And Personal Use Only
SR No.008637
Book TitlePrakarana Sukhsindhu Part 2
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherVitthalbhai Jivabhai Patel Ahmedabad
Publication Year1921
Total Pages471
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Literature
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy