SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तिलकमञ्जरी. अद्याऽप्युद्गतहर्षगद्गदगिरो गायन्ति यस्यार्बुदे, विश्वामित्रजयोर्जितस्य भुजयोर्विस्फूर्जितं गुर्जराः ॥ ३९ ॥ तस्मिन्नभूद्रिपुकलत्रकपोलपत्र-वल्लीवितानपरशुः परमारवंशे । श्रीवैरिसिंह इति दुर्धरसैन्यदन्ति-दन्ताप्रभिन्नचतुरर्णवकूलभित्तिः॥४०॥ तत्राऽभूद्वसतिः श्रियामपरया श्रीहर्ष इत्याख्यया, विख्यातश्चतुरम्बुराशिरसनादाम्नः प्रशास्ता भुवः । भूपः खर्वितवैरिवर्गगरिमा श्रीसीयक; सायकाः, पञ्चेषोरिव यस्य पौरुषगुणाः केषां न लग्ना हृदि । ४१ ॥ तस्योदग्रयशाः समस्तसुभटग्रामाग्रगामी सुतः, सिंहो दुर्धरशत्रुसिन्धुरततेः श्रीसिन्धुराजोऽभवत् । एकाधिज्यधनुर्जिताब्धिवलयावच्छिन्नभूर्यस्य स श्रीमद्वाक्पतिराजदेवनृपतिर्वीराग्रणीरग्रजः ॥ ४२ ॥ आकीर्णानितलः सरोजकलशच्छत्रादिभिलाञ्छनै-- स्तस्याऽजायत मांसलायुतभुजः श्रीभोज इत्यात्मजः । प्रीत्या योग्य इति प्रतापवसतिः ख्यातेन मुञ्जाख्यया, यः स्वे वाक्पतिराजभूमिपतिना राज्ये ऽभिषिक्तः स्वयम् ।।४३॥ देव्या विभ्रमसद्म पद्मवसतेः, कर्मावतंसं क्षितेः, सौभाग्यप्रतिपक्षमिन्दुमहसः सर्गाद्भुतं वेधसः । धत्ते योऽवधिभूतमीक्षणहृतां नेत्राऽमृतं योषितां, रूपन्यक्कृतकाममद्भुतमणिस्तम्भाभिरामं वपुः ॥ ४४ ॥ आयाता शरदित्युदीर्य मुदितैर्दारैः पुरो दर्शिता-- लीलोद्यानभवा नवाः सुमनसः सप्तच्छदक्ष्मारुहाम् । १ पञ्च इषवो यस्य सः, " सम्मोहनोन्मादनौ च, शोषणस्तापनस्तथा । स्तम्भनश्चेति कामस्य, शराः पञ्च प्रकीर्तिताः " ॥ १ ॥ For Private And Personal Use Only
SR No.008595
Book TitleJina Stuti Chaturvinshtika
Original Sutra AuthorShobhanmuni
AuthorAjitsagarsuri
PublisherBuddhisagarsuri Jain Gyanmandir
Publication Year1935
Total Pages301
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, Ritual_text, Ritual, & Worship
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy