SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( ७९ ) इति कर्मण्यणि कृते वृद्धावनिष्टं स्यादतो रदन्तीति रदाः भियो रदा इति षष्ठीतत्पुरुषे ‘रद्' विलेखने धातोः 'पचाद्यचि' सिद्धम् । भयभिदः। 'सकलभाः ' सकला-सम्पूर्णा भा-प्रभा येषां ते। अथवा सह कलया मधुरया भया-दीप्त्या वर्तन्त इति सकलभाः। “ स्युः प्रभारुक् रुचिस्त्त्विड् भा” इत्यमरः । “ भा मयूखमहसी छविर्विभा” इति हैमः । सदानवसुराजिताः ' सदानं-सविसर्जनं यद्वसु-द्रव्यं तेन भूमिपालावस्थायां राजिताः-भूषिताः। सदा नवसु कमलेषु राजिता वा, नवसंख्यकाभिः सुष्टुराभिः स्वर्णपङ्कजै: "वसुस्त्वग्नौ, देवभेदे नृपे रुचि । योक्त्रे शुष्के वसु स्वादौ, (स्वर्णे) रत्ने वृद्धयौषधे धने " ॥ इति हैमः ' असमरा जिताभीरदाः' असममतुल्यं राजन्त इत्येवं शीला नाभी-नाभिः रदाश्च दशना येषां ते तथाभूताः ' सकलभारतीराः सकलाः-सह कलाभिर्वर्तन्त इति सकला:-'कल' क्षेपे इत्यस्माद्धातोः 'पचाद्यचि' कला इतिसिद्धम् सदोषाः-सांसारिककार्यरूपा ये भारास्तेषां पर्यन्तस्थितत्वात्-तीरास्तीरभूताः अथवा असकलादोषरहिता या भारत्यस्ता ईरयन्ति-रान्ति ( ददति ) वा ये ते तथा । 'यताः' धर्मोपदेशे वा संयमे यत्नं कुर्वाणाः, वशीकृतेन्द्रिया इत्यर्थः । जिनाः' वीतरागाः । ' रुचितासु' अभिप्रेतासु ।' उचितासु' योग्यासु । ' क्रियासु-कर्त्तव्येषु । " क्रिया कर्मणि चेष्टायां, करणे संप्रधारणे । उपायारम्भशिक्षाऽर्चा-चिकित्सानिष्कृतिष्वपि" इति विश्वः। भो भव्य ! ' ते ' तव । ' आयताः ' दीर्घाः ' रतीः' मुदः। ‘क्रियासुः ' विधेयासुः ॥ ५० ॥ સમસ્ત જિનેશ્વરેની સ્તુતિ લોકાર્થ–દાનવ અને દેવે વડે પણ નહિ જીતાયેલા, ( અર્થાત્ તેમણે કરેલા ઘર ઉપસર્ગોથી અપરાજીત ) વળી સંગ્રામથી વિમુખ, ભયને દૂર કરનાર, (અર્થાત્ પોતે નિર્ભય હોવાથી For Private And Personal Use Only
SR No.008595
Book TitleJina Stuti Chaturvinshtika
Original Sutra AuthorShobhanmuni
AuthorAjitsagarsuri
PublisherBuddhisagarsuri Jain Gyanmandir
Publication Year1935
Total Pages301
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, Ritual_text, Ritual, & Worship
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy