________________
ShriMahavir JanArchanaKendra
Achanah
Gyan
च प्रवर्तनम् । लोकस्य तद्विमूढत्वं, चार्वाकाः प्रतिपेदिरे ॥१॥ लोकायतमतेऽप्येवं, संक्षेपोयं निवेदितः। अभिधेयतात्पर्यार्थः, पर्यालोच्यः सुबुद्धिभिः ॥२॥ श्रोतव्यः सौगतो धर्मः, कर्तव्यः पुनराहतः। वैदिको व्यबहर्तव्यो-ध्यातव्यःपरमःशिवः ॥३॥ इति चार्वाकाः विवदन्ति।
इत्थं सर्वदर्शनानांपर्यन्तैकसारूप्येऽपिपृथगुपृथगुपदेशष्टव्याद्विमतिसम्भवेविमूढस्यप्राणिनःसर्वस्पृक्तयादुर्लभं स्वर्गाऽपवर्गसाधकत्वम् । अतो विमर्शनीयस्तात्त्विकोऽर्थः । यथा च विचारितं चिरन्तनः॥ श्रोतव्यः सौगतो धर्मः, कर्त्तव्यः पुनराहतः। वैदिको व्यवहर्तव्या-ध्यातव्यः परमः शिवः ॥१॥ ___इत्यादिप्राचीनोक्तसूक्तानि विमृश्य श्रेयस्कर रहस्यमभ्युपगन्तव्यं कुशलमतिभिः । एवं चन्द्रनरेशितुः सदसि विभिन्नमतयः केचिजगत्कारं देवविशेष मेनिरे ॥ केचिच्च स्वाभाविकमिदं जगदिति प्रोचुः, केचित्पुनविद्वांसः शशशृङ्गबन्ध्यासुतसमं जगदेतदसदिति प्रतिपादयामासुः । अपरे घटपटरचनोपमां जगद्रचना कल्पयामासुः । अन्यशाब्दिका अनेकधा शब्दव्युत्पत्तिं कुर्वन्तः सभ्यजनान् रञ्जयामासुः, वेदपाठिनश्च करास्फालनपूर्वकं वेदमन्त्रानुच्चेरुः । साहित्यपाठिनो निजनिजच्छन्दोऽलङ्कारकलाभिर्नृपमानसं प्रमोदैकप्रवणं विदधुः । सदसि लब्धकीयः कवयः समस्याग्रहेलिकाप्रमुखकाव्यप्रबन्धैः सहृदयहृदयानि रञ्जयामासुः । सुतरां धर्माध्ववर्जिनः सद्वृत्तयः पौराणिका रामायणादिप्रथिततत्त्वानि विवेचयामासुः । कतिचिद्गुणदोषवेदिनो भिषग्वया दुग्धानजलौषधिपुष्पफलपत्राणां गुणान् ख्यापयामासुः । केचिच्चादाननिदानचिकित्सायां बुद्धिमन्तो वैद्याः सदोगृहं समलञ्चक्रुः । धनवर्गमूलादिकगणितशास्त्रेष्वतिदक्षाः समच्छेदादिप्रमाणविदः केचिज्ज्योतिषिकाः
For Private And Personlige Only