SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ Acharya Sh Kasagarson Gyarmat ॥चंद्रराजचरित्रम् ॥ ॥ ३२ ॥ प्रथमोबासे ऽष्टमः सर्गः॥ तान्प्रति दृष्टान्तमाह-भद्रे ! वृकपदं पश्येति । यथा हि कश्चित्पुरुषो वृकपददर्शनसमुद्भूतकुतूहला दयितां मन्थरतरप्रसमरसमीरणसमीकृतपशुप्रकरस्वालिन्यासेन वृकपदाकारतां विधाय पाह-हे भद्रे ? वृकपदं पश्य ! कोऽर्थः । यथा तस्या अविदितपरमाथाया मुग्धाया विदग्धो वल्लभो वृकचरणनिरीक्षणाई कराङ्गुलिन्यासमात्रेण प्रलोम्य पूरितवान् । एवममी अपि धमेच्छमधूत्ताः परवञ्चनप्रवणा यत्किञ्चिदनुमानागमादिदाढ्चमादय व्यर्थ मुग्धजनान् स्वर्गादिप्राप्तिलभ्यभोगाऽभोगप्रलोभनया भक्ष्याऽभक्ष्यगम्याऽगम्यहेयोपादेयादिसङ्कटे पातयन्ति मुग्धधार्मिकान्ध्यं चोत्पादयन्ति । एवमेवार्थ प्रमाणकोटिमधिरोपयन्तश्च यद्बहुश्रुताः परमार्थवेदिनो वदन्ति वक्ष्यमाणपयेनेत्यर्थः । पिच खाद च जातशोभने ? यदतीतं वरगात्रि ? तन ते । नहि भीरु ? गतं निवर्तते, समुदयमात्रमिदं कलेवरम् ॥ १॥ | स्वजनादिसंयोगा हि तरुशिखरावलीलीनशकुनिगणवत् क्षणतो विनश्वरास्तस्मात्परलोकाऽनपेक्षया यथेच्छं पिब, खाद चेति वृत्तार्थः । चैतन्यमाह-किञ्च पृथ्वी जलं तेजो-वायु तचतुष्टयम् । चैतन्यभूमिरेतेषां, मानन्त्वक्षजमेव हि ॥१॥ किश्चेत्युपदशेने, पृथ्वीप्रमुखभूतचतुष्टयमेतेषां चार्वाकाणां मते चैतन्यभूमिः चत्वार्यपि भूतानि संभूय सपिण्डं चेतन्यं जनयन्तीत्यर्थः । तु पुनानं प्रमाणं हि निश्चितमचजमेव प्रत्यक्षमेवैकं प्रमाणमित्यर्थः । ननु भृतचतुष्टयसंयोगजदेहचैतन्योत्पत्तिः कथं | प्रतीयतामित्याशङ्कयाह-पृथ्व्यादिभूतसंहत्या, तथा देहादिसंभवः । मदशक्तिः सुराङ्गेम्पो, यद्वत्तद्वस्थिताऽऽत्मता ॥१॥ ____ पृथ्व्यादिभूतानां संयोगे देहादिसंभवो जायते, दृष्टान्तमाह-यथा सुराङ्गेभ्यो गुडधातक्यादिभ्यो मद्याङ्गेम्यो मदशक्तिरुन्मादकत्वं भवति, तथा भृतचतुष्टयसम्बन्धात् शरीर आत्मता स्थिता सचेतनत्वं जातमित्यर्थः । तस्माद् दृष्टपरित्यागा-ददृष्टे ॥३२॥ For Private And Personale Only
SR No.008553
Book TitleChandraraja Charitram
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherAjitsagarsuri Shastra Sangraha
Publication Year
Total Pages376
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy