________________
Shri Mahavir Jain Aradhana Kendra
<*//8/6++60++******+ *
www.kobatirth.org
प्रत्यक्षं लैङ्गिकं शाब्दश्चेति प्रमाणत्रयं ज्ञेयम् । प्रत्यक्षमिन्द्रियोपलभ्यं, लैङ्गिकमनुमानगम्यं, शाब्दञ्चागमस्वरूपमिति कापिलमतसंक्षेपः । अपरदर्शनानि - पुराणं मानवो धर्मः, साङ्गो वेदश्चिकित्सितम् । श्राज्ञासिद्धानि चत्वारि, नहन्तव्यानि हेतुभिः ॥ १ ॥ इत्याद्युक्त्वा न विचारपदवीमाद्रियन्ते । जैनमतदर्शनं यथा - अस्ति वक्तव्यता काचि तेनेदं न विचार्यते । निर्दोषं काञ्चनं चेत्स्यात्परीचाया विभेति किम् ॥ १ ॥ इति युक्तियुक्तविचारपरम्परापरिचयपथपथिकत्वेन जैनो युक्तिमा|र्गमेवावगाहते । न च पारम्पर्यादिपक्षपातेन युक्तिमुल्लङ्घयति परमाईतः । उक्तञ्च पक्षपातो न मे वीरे, न द्वेषः कपिलादिषु । युक्तिमद्वचनं यस्य, तस्य कार्यः परिग्रहः ॥ १ ॥ तदेवाह - जिनेन्द्रो देवता तत्र, रागद्वेषविवर्जितः । हतमोहमहामल्लः, केवलज्ञानदर्शनः || २ || सुरासुरेन्द्रसंपूज्यः, सद्भूतार्थोपदेशकः । कृत्स्नकर्मक्षयं कृत्वा, संप्राप्तः परमं पदम् || ३ || अश भगवान् कर्मक्षयपूर्वमेव मोक्षपदं प्राप्त इति । अथ तत्त्वान्याह-जीवाजीवौ तथा पुण्यं, पापमाश्रवसंवरौ । बन्धश्व निर्जरामोचौ, नव तत्वानि तन्मते ॥ १ ॥ जीवाजीवपुण्यतत्त्वमेव सलचणमाह – तत्र ज्ञानादि धर्मेभ्यो-भिन्नाभिन्नोविवृत्तिमान् । कर्त्ता शुभाशुभं कर्म, भोक्ता कर्मफलस्य च ॥ १ ॥ चैतन्यलक्षणो जीवो - यश्चैतद्वैपरीत्यवान् । अजीवः स समाख्यातः, पुण्यं सत्कर्मपुद्गलाः ॥२॥ शेषतच्चान्याह - पापं तद्विपरीतन्तु, मिथ्यात्वाद्यास्तु हेतवः । यस्तैर्बन्धः स विज्ञेय - आश्रवो जिनशासने ॥ ३ ॥ संवरस्तनिरोधस्तु, बन्धो जीवस्य कर्मणः । अन्योऽन्यानुगमात्कर्म - सम्बन्धो यो द्वयोरपि ॥ ४ ॥ बद्धस्य कर्मणः शाटो - यस्तु सा निर्जरा मता । आत्यन्तिको वियोगस्तु देहादेर्मोक्ष उच्यते ॥ ५ ॥ इत्थं नामोद्देशेन तवानि सङ्कीर्त्त्य फलपूर्वकमुपसंहारमाह - एतानि तत्र तत्वानि यः श्रद्धत्ते स्थिराशयः । सम्यक्त्वज्ञानयोगेन तस्य चारित्र योग्यता ॥ १ ॥
For Private And Personal Use Only
Acharya Shri Kassagarsun Gyanmandir
O****O*•*•
•**•-•-*****-*O*•*K-103