SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ॥ चंद्रराज चरित्रम् ॥ ॥ २६ ॥ •**••* ̈*••*•*@* →→**<~•**••* *•••••• →→←~~ www.kobatirth.org प्रकृतिविस्तरमुपसंहरन्नाह – एवं चतुर्विंशतितत्वरूपं, निवेदितं सांख्यमते प्रधानम् । अन्यस्त्वकर्त्ता विगुणस्तु भोक्ता, तत्वं पुमान्नित्यचिदभ्युपेतः ॥ ३ ॥ एवं पूर्वोक्तप्रकारेण सांख्यमते चतुर्विंशतितम्स्वस्वरूपं प्रधानं निवेदितम् । प्रकृतिर्महानहङ्कारश्रेतित्रयम् । पञ्च बुद्धीन्द्रि याणि, पश्च कर्मेन्द्रियाणि मनस्त्वेकं पञ्च तन्मात्राणि, पश्च भूतानि चेति चतुर्विंशतिस्तत्त्वानि । पञ्चविंशतितमं तत्वमाह, अन्यस्त्विति - अन्योऽकर्त्ता पुरुषः, प्रकृतेरेव संसरणादिधर्मत्वात् । यदुक्तम्- प्रकृतिः करोति, प्रकृतिर्वध्यते, प्रकृतिर्मुच्यते, पुरुषोऽबद्धः, पुरुषो मुक्तः, पुरुषस्तु -- अमूर्तश्चेतनो भोगी, नित्यः सर्वगतोऽक्रियः । श्रकर्त्ता निर्गुणः सूक्ष्मः, श्रात्मा कापिलदर्शने ॥ १ ॥ पुरुषगुणानाह – सच्चरजस्तमोरूपगुणत्रयविकलः । तथा भोक्ता भोगी, एवं प्रकारः पुमान् पञ्चविंशतितमं तत्त्वं ज्ञेयम् अथ मोचप्रमाणश्चाह – प्रकृतिवियोगो मोक्षः, पुरुषस्यैवान्तरज्ञानात् । मानत्रितयञ्च भवेत्, प्रत्यक्ष लैङ्गिकं शाब्दम् ॥ १ ॥ पुरुषस्यात्मनः श्रान्तरज्ञानात्रिविधबन्धनविच्छेदात्प्रकृतिवियोगो यः स मोक्षः, प्रकृत्या सह वियोगे विरहे सति पुरुषस्यापवर्ग इति । अन्तरज्ञानञ्च बन्धविच्छेदाद्भवति । बन्धश्च प्राकृतिक वैकृतिकदाचिणभेदात्रिविधः । तद्यथा - प्रकृतावात्मज्ञानाद् ये प्रकृतिमुपासते तेषां प्राकृतिको बन्धः । ये विकारानेव भूतेन्द्रियाऽहङ्कारबुद्धीः पुरुषबुध्योपासते तेषां वैकारिकः । जनभोजनदानादिकमिष्टापूर्त्तं तस्मिन् दाक्षिणः, पुरुषतच्चानभिज्ञो हीष्टकारी कामोपहतमना बध्यत इति । इष्टापूर्त्तं मन्यमाना वरिष्ठं, नान्यच्छ्रेयो येऽभिनन्दन्ति मूढाः । नाकस्य पृष्ठे ते सुकृतेन भूत्वा, इमं लोकं हीनतरं वा विंशन्ति ॥ १ ॥ For Private And Personal Use Only Acharya Shri Kasagarsun Gyanmandir 18+*+/0/1043• •****++*.03+40+ 0.4K प्रथमान्नासे सप्तमः सर्गः ॥ ॥ २६ ॥
SR No.008553
Book TitleChandraraja Charitram
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherAjitsagarsuri Shastra Sangraha
Publication Year
Total Pages376
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy