SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra +*+******+0% **** ******+++*.03 www.kobatirth.org दैन्यं तमोगुण लिङ्गमिति । दैन्यादीत्यादिशब्देन दुःखत्रयमाक्षिप्यते । तद्यथा - आध्यात्मिकमाधिभौतिकमाधिदैविकञ्चेति । तत्राध्यात्मिकं द्विविधं शारीरं मानसञ्च । शारीरं वातपित्तश्लेष्मणां वैषम्यनिमित्तम् । मानसं कामक्रोध लोभमोहेर्ष्याविषयाऽदर्शननिबन्धनम् । सर्वं चैतदान्तरोपायसाध्यत्वादाध्यात्मिकं दुःखम् । बाह्योपायसाध्यं दुःखं द्वेधा, आधिभौतिकमाधिदैविकञ्चेति । तत्राधिभौतिक मानुपपशुमृगपतिसरीसृपस्थावरनिमित्तम् । आधिदैविकं यचराचसग्रहाद्या वेशहेतुकमिति । अनेन दुःखत्रयेणाभिहतस्य प्राणिनस्तत्त्वजिज्ञासोत्पद्यतेऽतस्तान्येव तत्त्वान्याह ततः सञ्जायते बुद्धिर्महानिति यकोच्यते । श्रहङ्कारस्ततोऽपि स्यात्तस्मात्षोडशको गणः ॥ १ ॥ ततोगुणत्रयाभिघाताद्बुद्धिः संजायते, यका - या बुद्धिर्महानिति कथ्यते । एवमेतन्नान्यथा, गौरयं नाश्वः, स्थाणुरेष नायं पुरुष इत्येवं निश्चयस्तेन पदार्थप्रतिपत्तिहेतुर्थोऽध्यवसायः सा बुद्धिरिति । तस्यास्त्वष्टौ रूपाणि तद्दर्शनप्रसिद्धानि । यदाहधर्मज्ञानवैराग्यैश्वर्यरूपाणि चत्वारि सात्त्विकानि, श्रधर्मादीनि तु तत्प्रतिपक्षभूतानि चत्वारि तामसानीत्यष्टौ । ततो बुद्धेरहङ्कारः स चाभिमानात्मको यथा अहंशृणोमि, अहं पश्यामि श्रहं स्वादयामि, अहं स्पृशामि, अहं जिघ्रामि, अहं स्वामी, अहमीश्वरः, असौ मया हतः, अहं त्वां हनिष्यामीत्यादिप्रत्ययरूपस्तस्सदहङ्कारात्षोडशको गणो जायते । पञ्च बुद्धीन्द्रियाणि पञ्च कर्मेन्द्रि याणि, एकादशं मनः, पञ्च भूतानीति षोडशको गणः । तमेव गणमाह-स्पर्शनं रसनं घ्राणं चक्षुः श्रोत्रञ्च पञ्चमम् । पञ्च बुद्धीन्द्रियाण्याहु-स्तथा कर्मेन्द्रियाणि च ॥ १ ॥ पायूपस्थवचः पाणि-पादाख्यानि मनस्तथा । अन्यानि पञ्चरूपाणि तन्मात्राणीति षोडश ॥ २ ॥ युग्मम् ॥ For Private And Personal Use Only **-*****OK -***-•XOK-X03 ** +C03•• Acharya Shri Kasagarsun Gyanmandir
SR No.008553
Book TitleChandraraja Charitram
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherAjitsagarsuri Shastra Sangraha
Publication Year
Total Pages376
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy