SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ ShriMahavir Jain ArachanaKendra www.kobabirth.org Achanh sagan Gyaan * प्रथमोबासे सप्तमः सर्गः॥ ॥ चंद्रराज-* एतेषां या समावस्था, सा प्रकृतिः किलोच्यते । प्रधानाऽव्यक्तशब्दाभ्यां वाच्या नित्यस्वरूपिका ॥१॥ चरित्रम् ॥ एतेषां सांख्यानां प्रकृतिः, प्रीत्यप्रीतिविषादात्मकानां लाघवोपष्टम्भगौरवधर्माणां सत्त्वरजस्तमसां त्रयाणामपि गुणानां F या साम्यावस्था-समतयाऽवस्थितिः सा किल प्रकृतिरुच्यते । शास्त्रे प्रकृतिः प्रधानमव्यक्तश्चेति पर्याया न तु तत्त्वान्तरमित्यर्थः । ॥२८॥ तथा नित्यस्वरूपिका-शाश्वतभावतया प्रसिद्धा उच्यते च नित्या नानापुरुषाश्रया च प्रकृतिस्तद्दशेनेन । यदाह तस्मान्न बध्यतेऽद्धा, न मुच्यते नाऽपि संसरति कश्चित् । संसरति बध्यते मुच्यते च नानाश्रया प्रकृतिरिति ॥१॥ अथ दर्शनस्वरूपमाह-सांख्या निरीश्वराः केचित् , केचिदीश्वरदेवताः । सर्वेषामपि तेषां स्या-तत्त्वानां पञ्चविंशतिः॥१॥ केचित्सांख्या निरीश्वरा ईश्वरं देवतया न मन्यन्ते केवलाध्यात्मवेदिनः। केचित्पुनरीश्वरदेवताः महेश्वरं स्वशासनाधिष्ठितारमाहुः । तेषां केवलाध्यात्मवादिनामीश्वरदेवतानां च सर्वेषां सांख्यमतानुसारिणां शासने तत्वानां पञ्चविंशतिः स्यात् । तत्वं हि मोक्षसाधक वीजमिति सर्ववादिसंवादः। यदुक्तम् पञ्चविंशतितत्वज्ञो-यत्र तत्राश्रमे रतः । जटी मुण्डी शिखी वाऽपि, मुच्यते नात्र संशयः ॥ १॥ तन्मते पञ्चविंशतिस्तत्वानि-तद्यथा-सत्त्वं रजस्तमश्चेति, ज्ञेयं तावद्गणत्रयम् । प्रसादतोपदेन्यादि-कार्यलिङ्ग क्रमेण तत्॥१॥ सत्त्वरजस्तमश्चेति गुणत्रयं ज्ञेयम् । अनुक्रमेण प्रसादतोषदैन्यादि कार्यलिङ्गं गुणत्रयेण जन्यते । सत्त्वगुणेन प्रसादकार्यलिङ्गं मुखनयनादिप्रसन्नता सत्त्वगुणेन स्यादित्यर्थः । रजोगुणेन तोषः स चानन्दपर्यायः, तल्लिङ्गानि स्फूत्यादीनि रजसाऽभिव्यज्यन्ते इत्यर्थः । तमोगुणेन च दैन्यं जायते । हा देव ! नष्टोऽस्मि वञ्चितोऽस्मीत्यादि वदनविच्छायतानयनसंकोचादिव्यङ्ग्यं ॥२८॥ For Private And Personlige Only
SR No.008553
Book TitleChandraraja Charitram
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherAjitsagarsuri Shastra Sangraha
Publication Year
Total Pages376
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy