SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ विपक्षे सन् सपचे चासन् विरुद्धः । पक्षत्रयवृत्तिरनैकान्तिकः । प्रत्यवानुमानागमविरुद्धपक्षवृत्तिः कालात्ययापदिष्टः । विशेषाग्रहणे हेतुत्वेन प्रयुज्यमानः प्रकरणसमो हेत्वाभासः । उदाहरणानि स्वयमभ्यूद्यानि । छलं, कूपो नवोदक इति, परोपन्यस्तवादे स्वाभिमतान्तरकन्पनया वचनविघातश्छलम् । कथमित्याह-वादिना कूपो नबोदक इति कथायां प्रत्यग्रार्थवाचकतया नवशब्दप्रयोगे छलवादी नवसंख्यामारोप्य दूषयति । कुत एकएव कूपो नवसंख्योदक इतिवाक्छलम् । प्रस्तावागतत्वेन शेषच्छलद्वयमप्याह-संभावनयाऽतिप्रसंगिनोऽपि सामान्यस्य हेतुत्वारोपणेन तनिषेधः सामान्यच्छलम् । यथा महोनु खन्वसौ ब्राह्मणो विद्याचरणसंपन्न इति ब्राह्मणस्तुतिप्रसंग कश्चिद्वदति संभवति ब्राह्मणे विद्याचरणसंपदिति। तच्छललवादी ब्राह्मणत्वस्य हेतुत्वमारोप्य निराकुर्वअभियुङ्क्ते, यदि ब्राह्मणे विद्याचरणसंपद्भवति चेद् व्रात्येऽपि सा भवेद् व्रात्योऽपि ब्राह्मण एवेति । औपचारिके प्रयोगे मुख्यप्रतिषेधेन प्रत्यवस्थानमुपचारच्छलम् । यथा मश्चाः क्रोशन्तीत्युक्ते परः प्रत्यवतिष्ठते, कथमचेतना मश्चाः क्रोशन्तीति च्छलत्रयस्वरूपं ज्ञेयमिति । दूषणाभासा जातयः । दूषणवदाभासन्त इति दूषणाभासास्ताश्चतुविंशतिभेदाःतद्विस्तारस्वरूपन्तु विचारणीयं ग्रन्थान्तरेभ्यः । अथनिग्रहस्थानमाह-निग्रहस्थानमाख्यातं, परो येन निगृह्यते । प्रतिज्ञाहानिसंन्यासविरोधादिविभेदवत ॥१॥ येन केनचिद्रूपेण परो विपक्षो निगृह्यते-परवादी वचननिग्रहे पात्यते तन्निग्रहस्थानमाख्यातम् । कतिचिढ़ेदानामतो निर्दिशबाह-प्रतिज्ञाहानिसंन्यासविरोधाः प्रतिज्ञाया हानिः संन्यासो विरोधः । आदिशब्देन शेषा अपि मेदास्तद्ग्रन्थाज्ञयाः। इदानीं सांख्याभिमतभावानां समासः कथ्यते For Private And Persone ly
SR No.008553
Book TitleChandraraja Charitram
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherAjitsagarsuri Shastra Sangraha
Publication Year
Total Pages376
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy