SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ Acharya Shri Kasagarten Gyaan ॥चंद्रराजचरित्रम् ।। प्रथमोलासे सप्तमः सर्गः॥ ॥ २७॥ यस्मिन्नुपन्यस्ते वचने यो विवादविषयो न भवति स दृष्टान्तो ज्ञेयः, तावच्चाऽन्वयव्यतिरेकयुक्तोऽर्थःस्खलति यावन स्पष्टं दृष्टान्तोपष्टम्भः । उक्तञ्च-तावदेव चलत्यों-मंन्तुर्गोचरमागतः । यावनोत्तम्भने नैव, दृष्टान्तेनावलम्यते ॥१॥ सिद्धान्तः पुनः सर्वतन्त्रादिभेदतः प्रथमः सर्वतन्त्रसिद्धान्तो द्वितीयः प्रतितन्त्रसिद्धान्तस्तृतीयोऽधिकरणसिद्धान्तश्चतुर्थोऽभ्युपगमसिद्धान्त इति सिद्धान्तस्वरूपन्वत्र विस्तरभयान लिख्यते । प्रतिज्ञा हेतुर्दष्टान्त उपनयो निगमनश्चेति पश्चावयवाः । तत्र प्रतिज्ञा पक्षः, अग्निमानयं पर्वत इत्यादि । हेतुर्लिङ्गवचनम् , धूमवत्त्वादित्यादि । दृष्टान्त उदाहरणवचनं, यो यो धूमवान् स स वह्निमान् यथा महानसप्रदेश इत्यादि । उपनयो हेतोरुपसंहारकं वचनं धूमांश्चायं गिरिरित्यादि । निगमनं हेतूपदेशेन पुनः साध्यधर्मोपसंहरणं, तस्माद्वन्हिमानित्यादि, इतिपश्चावयवस्वरूपनिरूपणम् । तर्कः संशयोपरमो भवेत् । यथा दूराद् - दृग्गोचरे स्पष्टप्रतिभासाभावात् किमयं स्थाणुर्वा पुरुषो बेतिसंशयस्तस्योपरमेऽभावे सति तर्को नाम तत्त्वं भवेत् । पूर्वोक्तलक्षणाभ्यां सन्देहतकोभ्यामूर्ध्व स्थाणुरेवायं पुरुष एवायमिति प्रतीतिविषयो निर्णयनामा तत्वविशेषो ज्ञातव्यः । वादतत्त्वमाह-आचार्यशिष्ययोः पक्ष-प्रतिपक्षपरिग्रहात् । यः कथाम्यासहेतुः स्या-दसौ वाद उदाहृतः॥१॥ अथ तद्विशेषमाह-विजिगीषुकथा या तु, च्छलजात्यादिषणम् । स जल्पः सा वितण्डा तु, या प्रतिपक्षवर्जिता ॥२॥ हेत्वाभासादिस्वरूपमाह-हेत्वाभासा असिद्धाद्या-श्छलं कूपो नवोदकः । जातयो क्षणाभासाः, पचादिभ्यते न यैः ॥३॥ | प्रसिद्धविरुद्धानकान्तिककालात्ययापदिष्टप्रकरणसमाः पञ्च हेत्वाभासा ज्ञेयाः । तत्र पक्षे धर्मत्वं यस्य नास्ति सोऽसिद्धः। For Private And Personale Only
SR No.008553
Book TitleChandraraja Charitram
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherAjitsagarsuri Shastra Sangraha
Publication Year
Total Pages376
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy