SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra OK→**←•*@*@*→←→←+*@***** www.kobatirth.org तत्रानि षोडशाऽमुत्र, प्रमाणादीनि तद्यथा । प्रमाणश्च प्रमेयञ्च, संशयश्च प्रयोजनम् ॥ १ ॥ दृष्टान्तोऽप्यथ सिद्धान्तोऽवयवास्तर्कनिर्णयौ । वादो जल्पो वितण्डा च हेत्वाभासाश्वलानि च ।। २ ।। जातयो निग्रहस्थाना-न्येषामेवं प्ररूपणा । अथोपलब्धिहेतुः स्यात्प्रमाणं तच्चतुर्विधम् || ३ || अत्र अमुष्मिन्प्रस्तुते नैयायिकमते प्रमाणप्रमेयसंशयप्रयोजनदृष्टान्तसिद्धान्ता वय व तर्कनिर्णयवादजल्पवितण्डाहेत्वाभासच्छलजातिनिग्रहस्थानाना तत्वज्ञानान्निःश्रेयससिद्धिरिति षोडश पदार्थाः । तत्रार्थोपलब्धिकारणं प्रमाणं प्रत्यक्षानुमानोपमानशाब्दिकभेदाच्चतुर्विधं ज्ञेयम् | तल्लक्षणानि त्वन्यस्माद् बुद्धिमद्भिरवगन्तव्यानि अथ प्रमेयलक्षणमाह - " प्रमेयं त्वात्मदेहार्थबुद्धीन्द्रियसुखादिचे - " ति प्रमाणग्राह्योऽर्थः प्रमेयम् । तु पुनरर्थे श्रात्मा च देहश्वेति द्वन्द्वः । आदिशब्देन शेषाणामपि पण्णां प्रमेयार्थानां संग्रहः । तच्च नैयायिकसूत्रे आत्मशरीरेन्द्रियार्थबुद्धिमनःप्रवृत्तिदोपप्रेत्यभावफलदुःखापवर्गभेदेन द्वादशविधम् । तत्र सचेतनत्वकत्र्त्तृत्वसर्वगतत्त्वादिधर्मैरात्मा प्रतीयते । एवं देहादयोऽपि प्रमेयतया ज्ञेयाः । अत्र तु ग्रन्थविस्तरभयान्न मयैतत्प्रपञ्चितम्, इतरग्रन्थेभ्योऽपि सुज्ञेयत्वाच्च । अथ संशयादिस्वरूपमाह किमेतदितिसन्दिग्धः प्रत्ययः संशयो मतः । प्रवर्त्तते यदर्थित्वा तत्तु साध्यं प्रयोजनम् ॥ १ ॥ एल्कि स्थाणुर्वा पुरुषो वेति यः संदिग्धः प्रत्ययः स संशयो नाम तत्त्वविशेषो मतः, अर्थित्वात्प्राणी साध्यं कार्यं प्रतिप्रवर्त्तमानो भवति, न हि निष्फलः कार्यारम्भः । एवं यत्प्रवर्त्तनं तत्प्रयोजनम् । दृष्टान्तस्तु भवेदेष विवादविषयो न यः । सिद्धान्तस्तु चतुर्भेदः सर्वतन्त्रादिभेदतः ॥ १ ॥ For Private And Personal Use Only *****++-**<•3++++***+++++--:; Acharya Shri Kassagarsuri Gyanmandir
SR No.008553
Book TitleChandraraja Charitram
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherAjitsagarsuri Shastra Sangraha
Publication Year
Total Pages376
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy