________________
Shri Mahavir Jain Aradhana Kendra
॥ चंद्रराज
चरित्रम् ॥
॥ २६ ॥
<*****>**<*10K+*.03++***<-03+ ******
www.kobatirth.org
बौद्धमते प्रत्यक्षमनुमानश्चेति द्वे प्रमाणे अनुमीयत इत्यनुमानं लैङ्गिकं ज्ञानम् । यतः सम्यग्ज्ञानं निश्चितावबोधो द्विधा द्विप्रकारः । सम्यग्ग्रहणं मिथ्याज्ञाननिराकरणार्थम् । इति बौद्धमतं संक्षेपमात्रमभिधाय नैयायिकमतं व्याचष्टे.
अक्षपादमते देवः, सृष्टिसंहारकृच्छिवः । विभुर्नित्यैक सर्वज्ञो - नित्यबुद्धिसमाश्रयः ॥ १ ॥
अक्षपादा नैयायिकास्तेषां मते शासने सृष्टिसंहारकारको दर्शनाधिष्ठायकः शिवो महेश्वरो देवः संमतः । तथाहि - अस्य प्रत्यक्षतयोपलक्ष्यमाणस्य चराचरस्वरूपस्य जगतः कश्चिदनिर्वचनीयमाहात्म्यः पुरुषः सृष्टा ज्ञेयः । केवलसृष्टौ च निरन्तरोत्पद्यमानापारप्राणिगणस्य भुवनत्रयेऽयमातृत्वमिति संहारकर्त्ताऽपि कश्चिदभ्युपगन्तव्यः । स च विभुः सर्वव्यापकः, एकनियतस्थानवृत्तित्वे नियतप्रदेशस्थितानां पदार्थानां प्रतिनियतयथावन्निर्माणाऽनुपपत्तेः । नह्येकस्थानस्थितः कुम्भकारोऽपि दूरदूरतरघटघटनायां व्याप्रियते तस्माद्विभुर्भगवान् । तथा नित्यः एकथ, यतो नित्योऽत एवैकः । अप्रच्युताऽनुत्पन्नस्थिरैकरूपः । भगवतोह्यनित्यत्वे पराधीनोत्पत्तिसव्यपेक्षतया कृतकत्वप्राप्तिः स्यात् । स्वोत्पत्तावपेक्षितपरव्यापारो हि भावः कृतक इष्यत इति । सर्वज्ञश्च सन् सकलदेहिनां संमीलितसमुचितकारणकलापानुरूपपारिमाण्डन्यानुसारेण कार्यवस्तुनिर्मिमाणः स्वाजितपुण्यपापानुमानेन च खर्गनरकयोः सुखदुःखोपभोगं ददानः केषां नाभिमतः ।
तथा चोक्तम् “ ईश्वरप्रेरितो गच्छेत्स्वर्ग वा श्वभ्रमेव वा । अन्यो जन्तुरनीशोऽय - मात्मनः सुखदुःखयोः ॥ १ ॥ पुनः नित्यबुद्धिसमाश्रयः शाश्वतबुद्धिस्थानम् । क्षणिकबुद्धिमतो हि पराधीन कार्यापेक्षितया मुख्यकर्तृत्वाभावादनीश्वरत्वप्रसक्तिरिति ईदृग्गुणविशिष्टः शिवो नैयायिकम तेऽभ्युपगन्तव्यः । अथ तवप्ररूपणा माह
For Private And Personal Use Only
***++++++-+-***-***++***+/
Acharya Shri Kasagarsun Gyanmandir
प्रथमोल्लासे
सप्तमः
सर्गः ॥
॥ २६ ॥