________________
यदाह-यस्मिन्नेव हि सन्ताने, आहिता कर्मवासना । फलं तत्रैव संधत्ते, कार्पासे रक्तता यथा ॥१॥
रूपमिति-गरगायमाणपरमाणुप्रचयः । बौद्धमते हि स्थूलरूपस्य जगति विवर्त्तमानपदार्थजातस्य तदर्शनोपपत्तिभिनिराक्रियमाणत्वात् परमाणव एव ताचिकाः ॥ दुःखनामधेयमार्यसत्यं पञ्चधा निरुप्याथसमुदयतत्त्वस्वरूपमाह
समुदेति यतो लोके, रागादीनां गणोऽखिलः । आत्मात्मीयस्वभावाख्यः, समुदयः स संमतः ॥१॥
यतो यस्मालोकेऽयमात्मीयोऽयश्च परकीय इति स्वभावात्मको रागद्वेषमोहानामखिलो गणः समुदेति स समुदयः संमतः। अथ तृतीयचतुर्थतत्त्वे प्रपञ्चयन्नाह
क्षणिकाः सर्वसंस्कारा-इत्येवं वासना तु या । स मार्ग इति विज्ञेयो-निरोधो मोक्ष उच्यते ॥१॥
सर्वेषां विश्वत्रयविवरवर्तमानानां घटपटस्तम्भाम्भोरुहादीनां द्वितीयादिक्षणेषु स एवायं सएवायमित्याद्युल्लेखेन ये संस्कारा ज्ञानसन्ताना उत्पद्यन्ते ते विचारगोचरगताः चणिकाः इत्येवंविधा या वासना स मार्ग इति तत्वं विज्ञेयम् । मोक्षोऽपवर्ग: सर्वक्षणिकत्वसर्वनैरात्म्यवासनारूपो निरोधो नामार्यसत्यमभिधीयते । अथ तत्वानि व्याख्याय तत्संलग्नान्येवायतनान्याह
पञ्चेन्द्रियाणि शब्दाद्या-विषयाः पञ्च मानसम् । धर्मायतनमेतानि, द्वादशायतनानि च ॥१॥
स्पर्शनरसनघ्राणचक्षुःश्रोत्ररूपाणि पञ्चेन्द्रियाणि, शब्दरूपरसस्पर्शगन्धरूपाः पञ्च विषयाः, मानसं चित्त, धर्मायतनमिति धर्मप्रधानमायतनं चैत्यस्थानमिति । एतानि द्वादशसंख्यान्यायतनानि ज्ञेयानि । तत्त्वानि व्याख्यायाधुना प्रमाणमाह
प्रमाणे द्वे च विज्ञेये, तथा सौगतदर्शने । प्रत्यक्षमनुमानश्च, सम्यग्ज्ञानं द्विधा यतः ॥ १॥
For Private And Persone
ly