________________
Shri Mahavir Jain Aradhana Kendra
K++++*84-0
www.kobatirth.org
कोविदा निजगुणैर्भूपचेतसि भूरिचमत्कृतिं चक्रुः । बौद्धसाङ्खय जैन नैयायिकवैशेषिक चार्वाका एकैकस्मादधिकतर युक्तिप्रयुक्तिभिः स्वस्वाभीष्टमतं दर्शयामासुः ॥
इतिश्री चन्द्ररामचरित्रे प्रथमोल्ला से पष्ठः सर्गः ॥ ६ ॥
अथ कानि तानि दर्शनानीत्यपेक्षया व्यक्तितस्तत्संख्यामाह कारिकाकारः - दर्शनानि षडेवात्र, मूलभेदव्यपेक्षया । देवता तस्वभेदेन ज्ञातव्यानि मनीषिभिः ॥ १ ॥
अस्मिञ्जगति प्रसिद्धानि षडेवदर्शनानि, एवशब्दोऽवधारणे, यद्यपि भेदप्रभेदतया बहूनि दर्शनानि प्रसिद्धानि, यदुक्तं सूत्रे. असियस किरणं, अकिरियवाई हुंति चुलसी ई । अन्नाणि य सत्तठ्ठी, वेणइश्राणं च बत्तीसं ॥ १ ॥ इति त्रिषष्ट्यधिकात्रिशतीभेदाः पाखण्डिकानाम् । बौद्धमते चाष्टादश निकायभेदाः, ते च वैभाषिक, सौत्रान्तिक, योगाचार, माध्यमिकादयो ज्ञेयाः । जैमिनेश्च शिष्यकृता बहवो भेदाः प्रतीयन्ते.
तद्यथा - उत्पलः कारिकां देति, तन्त्रं वेत्ति प्रभाकरः । वामनस्तूभयं वेत्ति न किञ्चिदपि रेवणः ॥ १ ॥
अपरेsपि बहूदक, कुटीचर, हंस, परमहंस, भाट्ट, प्राभाकरप्रमुखा बहवोऽन्तर्भेदाः । अपरेषामपि दर्शनानां तत्त्वदेवता प्रमाखादिभिन्नतया बहवो विभेदाः प्रादुर्भवन्ति, तथापि परमार्थतस्तेषामेष्वेवान्तर्भावात्पडेवेति, अथ तेषामेव दर्शनानां नामान्याह
बौद्धं नैयायिकं सांख्यं, जैनं वैशेषिकं तथा । जैमिनीयञ्च नामानि, दर्शनानाममून्यहो ॥ १ ॥
अस्याः कारिकाया व्याख्या-चौद्धमिति बुद्धो देवता अस्येति बौद्धं सौगतदर्शनम् । न्यायः प्रमाणमार्गस्तस्मादनपेतं
५
For Private And Personal Use Only
Acharya Shri Kassagarsun Gyanmandir
******OK+++******++*****++****→