________________
प्रथमोलासे
॥ चंद्रराजचरित्रम् ॥ ॥२४॥
सर्गः ॥
तद्यथा-सिंहः शिशुरपि निपतति, मदमलिनकपोलभित्तिषु गजेषु । प्रकृतिरियं सत्त्ववता, न खलु वयस्तेजसो हेतुः ॥१॥
किमपेक्ष्य फलं पयोधरान् , ध्वनतः प्रार्थयते मृगाधिपः। प्रकृतिः खलु सा महीयसां, सहते नान्यसमुन्नतिं यया ॥२॥
स्वविक्रमसमाक्रान्तरिपुचक्रश्चक्रिवद्धराचके चङ्कमैश्चन्द्रराजःस्वनाम कृतार्थयामास । अन्यदा रूपसम्पदा निर्जितानङ्गः सुरसा नुमच्छिखरारूढदिनकृदिव भासमानोऽधिष्ठितराज्यविष्टरः सपरिवारश्चन्द्रराज आस्थानमण्डपमलञ्चकार,अथाऽत्र संस्थितैर्जङ्गमगि-* रिशृङ्गवृन्दैरिवोन्नतैरञ्जनपुञ्जरिव श्यामै लमिव मदधारामभिवद्भिर्दन्तश्रेणिभिर्विद्युत्प्रभां वितन्वद्भिवृहितैमेघघटा स्मारयद्भिदन्तिनिवहैः प्रावृट्समयः प्रतीयते स्म, घोणाविवरविनिःसरद्वारिपूरैघुसणोदकसंभृतकनकभृङ्गीरनुकुर्वन्तः, उद्गीर्णोज्ज्वलफेनरा. शिमुखैरबीलप्रक्षेपस्मृतिं कारयन्तो हेपारवैः कोलाहलभ्रान्ति स्मारयन्तस्तुरङ्गमास्तत्र विलेसुस्तेनसाक्षाद्वसन्तःसमागत इति सर्वे विविदुः । चन्द्रराजद्विजराजमुखात्प्रक्षरन्तीं वचनसुधां श्रोत्रशुक्तिपुटैः पिबन्त्यः प्रजा अभिनवगुणमौक्तिकानि जनयामासुस्तेन | तत्र शरदागमः स्पष्टीबभूव, यतः शरदागमे मौक्तिकानि जायन्ते । प्रत्यहं तत्र धान्यराशय इव जनपदेभ्यो विविधोपदाः समागुस्तेन साचाद्धेमन्तर्तुः प्रतीयते स. तदुप्रभीतितुषारदग्धमुखकमलाः शीतार्ता इव तद्भयाद्वेपमानशरीरावयवा अनेकनृपतयस्तत्र समागता मौलिनगमकरन्दैस्तच्चरणपीठं रञ्जयन्तः शीतकालं व्यञ्जयामासुः । प्रकटितप्रतापस्य तस्य प्रत्यर्थिभूपाः पत्तनवननिशान्तेषु काऽपि रतिमलभमाना ग्रीष्मा द्योतयन्ति स्म, पुनस्ते प्रत्यर्थिनोऽपि चन्द्रराजं शरणीकृत्य तदङ्गरक्षकीभूय सुखिनोऽभूवन् । एवं युगपत्तत्र तद्गुणाकृष्टा इव सर्वर्त्तवः संलक्ष्यन्ते । एवमहर्निशं विलसतस्तस्य महीधरस्य सदसि सुरगुरुमतीनां पूज्यपादानां प्रवरपण्डिताना पञ्चशती मिथो विवदमाना सदोगताना मनांसि रञ्जयामास, षड्दर्शनवेदिनोऽन्येऽपि
॥२४॥
For Private And Persone
Only