________________
Shri Mahavir Jain Aradhana Kendra
ER++1.03++XOK+K++CK+-६0 ** Xx0K
www.kobarth.org
पीयूषपानमपि नाद्रियन्त, सितच्छत्रायमाणकीर्त्तिमण्डलाखण्डलविक्रमो महोज्ज्वलो जगत्क्षीरनिधौ रत्नायमानमूर्त्तिश्चन्द्रराजो राजहंस इवाचरत् । सुरापगेव स्वच्छमतिः सद्गुणैकनिवासगुणावली कुवलयमालायमाना निजपतिमानसमावर्जयामास. दोगुन्दुकवत दम्पती मिथः प्रेमपाशनिबद्धौ रतिविलासं चक्रतुः । रथाङ्गनामानाविवोभौ चणमपि विरहवेदनां न सेहाते, वसुधाधिपस्तयैवात्मानं कलत्रवन्तं मेने.
यतः - सरसा सुपदन्यासा, सालङ्कारा सुवर्णमयमूर्त्तिः । श्रर्या तथैव भार्या, न लभ्यते पुण्यहीनेन ॥ १ ॥ प्राकृतसुकृतसञ्चयादेव तादृशं स्त्रीरत्नं मानवदेवेन लभ्यते, दम्पत्यो मैत्रीभावो दुग्धोदकवद्देवानामपि प्रशंसनीयः प्रकीर्त्तितः । तद्यथा-चीरेणात्मगतोदकाय हि गुणा दत्ताः पुरा तेऽखिलाः, चीरे तापमवेच्य तेन पयसा ह्यात्मा कृशानौ हुतः । गन्तुं पावकमुन्मनस्तदभवद् दृष्ट्वा तु मित्रागमं युक्तं तेन जलेन शाम्यति सतां मैत्री भवेदीदृशी ॥ १ ॥ आदिमध्यनिधनेषु सौहृदं, सज्जने भवति नेतरे जने । छिन्नताडितसुघृष्टतापितं नान्यभावमुपयाति काञ्चनम् ॥ २ ॥ शरावनौ नदीवृक्ष -समा प्रीतिः प्रशस्यते । प्रासादवेणिदण्डेनु - समाप्रीतिर्न युज्यते ॥ ३ ॥
पुनरनयोः प्रेममुद्रा कनकमणियोगवदधिकं दिदीपे एवमनुभूतानेकविध विलासरसास्वादयोस्तयोः कियान्समयो व्यतीयाय । अथ वयसा लघीयानपि ग्रीष्मार्काभिभाविविक्रमेण गरीयान् सततोज्ज्वलप्रतापेन प्रत्यर्थिंग भयप्रदोऽपि दयावासित चेतसा प्रशान्तमूर्त्तिः, विनयादिगुणसम्पन्नोऽपि गुरुशुश्रूषायामतिलुब्ध चन्द्रराजः पद्मबन्धुरिव पैतृकं पदं सुमेरुशृङ्गमिव व्यभूषयत् । निःसपत्नं राज्यव्यवहारं प्रवर्त्तयन् तेजस्विनां धुर्यतां स लेभे, तेजस्विनामियं प्रकृतिः प्रत्यर्थिपराभवं न सहते ।
For Private And Personal Use Only
Acharya Shri Kasagarsun Gyanmandir
***++++++++++