________________
ShriMahavir Jain ArachanaKendra
Achh
agan Gyaan
।। चंद्रराजचरित्रम् ॥
प्रथमोबासे
॥ २२॥
सर्गः॥
स्कण्ठा चेत् स्वल्पेन कालेन सुरगिरिमपि क्रीडाशैलमिव त्वनिवासाङ्गणवर्त्तिनं वितनोमि, किं वा तव संमतिश्चेत्सुरकुमारीमिह | समाकार्य त्वया साकमुद्वाहयामि, वत्स ? मदुक्तमिदं सर्वमवितथं विद्धि, मामकीनामकलनीयां शक्तिसम्पदमवगन्तुममृतान्धसोऽपि कुण्ठगतयो भवन्ति, मानवास्तु किमुत?, अहो ? महीपीठे महिलाचरितं वाग्मिभिरपि दुर्जेयम्. उक्तश्च
अश्वप्लुतं माधवगर्जितश्च, स्त्रियश्चरित्रं पुरुषस्य भाग्यम् । अवर्षणश्चाप्यतिवर्षणश्च, देवा न जानन्ति कुतो मनुष्याः॥१॥ ___ वत्स ? जगत्रयश्लोकनीयलोकातीतकीर्तेर्मम प्रभावस्त्वचिन्तनीयः यथाकाम त्वन्मनोऽभीष्टं पूरयिष्यामि, किन्तु यौवनवने परिभ्रमन् धनोन्मादविमूढो मदाज्ञाविमुखो मा भूः । यद्यौवनावेशः सर्वानर्थदायकः सर्वजनदुःसहो विभाव्यते, यत्पाशपतितो मतिमानपि मनुजो निजकर्त्तव्यतामूढो भिजायते.
तथा चोक्तम्-यौवनं धनसम्पत्तिः, प्रभुत्वमविवेकिता । एकैकमप्यनय, किमु यत्र चतुष्टयम् ॥ १॥
नन्दन ? मयि तुष्टायां कामदुधाकल्पतरुचिन्तामणयः कियन्तः? पुनः कुप्यमाना विषवल्लीदृष्टिविषावप्यधरीकरोमि, पुत्ररत्न? कदाचिदपि मदाज्ञामवधूय त्वया निजप्रत्या किमपि कार्य न विधेयं मद्वचनेनैव सर्वदा कार्यप्रवृत्तिर्विधातव्या, अपरश्चैतद्विशेषतः स्मरणीयं, यद्यात्महितं वाञ्छसि चेन्मच्छिद्राणि त्वया न विलोकनीयानि, यतः परच्छिद्रान्वेषकः स्वसमीहिताद्भश्यत्येव. परस्य यो दूषणमीक्षतेऽधमः, स केवलं हारयते शुभं निजम् । स्वकर्मदक्षो विदुरो हि शस्यते, परोपकारप्रवणः पदे पदे ॥१॥
चन्द्रराजो रचिताञ्जलिवीरमती ज्ञापयामास, मातस्त्वद्वचनगगनमणिनिहततमस्ततिरहमतिहितदोपकारवत्या भवत्या प्रादेशकुसुमाञ्जलि शिरसा धारयिष्ये, यदि मे हृदयकषपट्टिकायां कुलीनता रेखा व्यद्योतिष्यत तदा रेखामात्रमपि त्वद्वचोऽध्वलकनं
॥२
For Private And Personlige Only