SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ Anha G समाराध्य क्रमेणोच्चश्रेणी समारुह्य शाश्वतस्थानमाससाद । अथ श्रीवीरमतीसपरिग्रहचन्द्रकुमारयोश्चित्तचमत्कृतिजनकमवदातमुदीर्यते, तन्निशम्यान्धदर्पणन्यायप्रसङ्गो यथा न भवेत्तथा सहृदयविधातव्यम् । उक्तश्च-अरण्यरुदितं कृतं, शवशरीरमुवर्तितम् । स्थलेऽजमवरोपितं, यदुषरभूमिषु वर्षितम् । श्वपुच्छमवनामितं, यदबुधो जनः सेवितः । धृतोऽन्धमुखदर्पणो-बधिरकर्णजापः कृतः ॥१॥ तत्रापि-गुणदोषौ बुधो गृह्ण-भिन्दुक्ष्वेडाविवेश्वरः । शिरसा श्लाघते पूर्व, परं कण्ठे नियच्छति ॥२॥ सुभाषितं हारि विशत्यधो गला-म दुर्जनस्यार्करिपोरिवामृतम् । तदेव धत्ते हृदयेन सज्जनो-हरिर्महारत्नमिवातिनिर्मलम् ॥३॥ सुत्राः सुकविगुम्फितगुणिगणगुणकुसुमावली गुणलुब्धाः स्वयमेव सादरं समावहन्ति, भव्याः ? गुणावलीचन्द्रकुमा| रयोर्वीरमतीविद्याप्रभावः कीदृशः स्फुरति तत्सावधानतया शृणुत, अथ वीरमती लब्धस्वातन्त्र्या चन्द्रराज रहसि समाहूय | कथयामास. वत्स ? संसृतिपारावारमसारं विदित्वा जातवैराग्यस्त्वजनकस्त्वयि राज्यधुरां विन्यस्य स्वयं संयमधुरामग्रहीत् , त्वन्माता चन्द्रावत्यपि निर्वाणपदरागिणी तदनुमता गृहीतदीचा वीणकर्माऽजनि, सम्प्रति निश्चिन्तमनसा सुमनसा विभवभाजा मानवभवेऽपि भवता स्थिरतया भाव्यम् , अनवद्यविद्यावलबलिष्ठायां मयि विद्यमानायां तव का चिन्ता ? वत्स ? यद्यस्ति त्वदभिलाषश्चेत्सत्वरं वरं स्वर्गपतिसिंहासनमत्रानयामि, आयुष्मन् ? युष्मन्मनोरथश्चेत्सप्तसप्तिहरिदश्वानञ्जसा त्वन्मन्दुरासेविनो विदधामि, धीमन् ? धनाध्यक्षं विलक्ष्यीकृत्य कृत्यविदहं चणेन तत्समृद्धिमपाहृत्य भवदीयनिधीनक्षीणधनान्करोमि, त्वदु For Private And Personale Only
SR No.008553
Book TitleChandraraja Charitram
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherAjitsagarsuri Shastra Sangraha
Publication Year
Total Pages376
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy