SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ तथा च-वृद्धस्य मृतभार्यस्य, पुत्राधीनधनस्य च । स्नुषावचनदग्धस्य, जीवितान्मरणं वरम् ॥ ५ ॥ यममिव गृहीतदण्डं, इरिमिव सगदं शशाङ्कमिव वक्त्रम् । शम्भुमिव विरूपाक्षं, जरा करोत्यकृतपुण्यमपि ॥६॥ पटु रटति पलितदूतो-मस्तकमासाद्य सबैलोकस्य । परिभवति जरामरणं, कुरु धर्म विरम पापेभ्यः ॥७॥ वृद्धत्वाऽनलदग्धस्य, सारयौवनवस्तुनः। दृश्यते देहगेहेपु, भस्मैव पलितच्छलात् ॥ ८॥ वीक्ष्यते पलितश्रेणि-नैव वृद्धस्य मूर्द्धनि । वृथैव * जातजन्मेति, किन्तु भस्मविधिय॑धात् ॥९॥ निःसीमरूपवैभवसंपन्नोऽयं देहो जरसाभिभूतः कथं स्थास्यति ? पकाम्रफलं कियत्कालं वृन्तावलम्बि तिष्ठति ? रुजादितं शरीरं भेषजादिप्रयोगैः सुसाध्यं भवति, न पुनरस्याः प्रत्युपचारः श्रूयते. यतः-अलङ्करोति हि जरा,-राजामात्यभिषग्वरान् । विडम्बयति पण्यस्त्री-मल्लगायकसेवकान् ॥१॥ यद्यपि नीललोहितेन कुसुमधन्वा पञ्चत्वं प्रापितस्तथैवेयं जरा कथं न भस्मावशेषीकृता? तदभावे हि निश्चिन्तचेतसो देहिनः सदैव सन्मङ्गलावलीमनुभवेयुः। एवं विचिन्तयन्नरेशो निजात्मानमबोधयत् रे ? जीव ? दुरन्तदुःखौघनिलयेऽस्मिन्संसारावासे धर्म| मन्तरा न किमपि लोकान्तरहितदम् , इदं शरीरमनित्यम् , विभवराशिरशाश्वतः, मृत्युसुभटस्तु नित्यं प्राणिनां प्राणापहारकः सन्निहितस्तिष्ठति, तसानिजकर्त्तव्यपरायणोभव, देहिनां धर्माराधनमेवशाश्वतसिद्धिसाधकं, विषयविषवासनां दूरतः परिहर, यदुक्तम्-विषं जग्धं वरं प्रोक्तं, सकृत्प्राणहरं यतः । विषयासेविनो लोकाः, पीड्यन्तेऽनेकजन्मसु ॥१॥ ततश्चेतसा प्रसमीक्ष्याक्षयनिजात्मानन्दरसमास्वादय, आत्मन् ? यथेयं जरा बाह्यप्रकाशं कुरुते तथैव त्वमसङ्घयप्रदेशाव For Private And Persone ly
SR No.008553
Book TitleChandraraja Charitram
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherAjitsagarsuri Shastra Sangraha
Publication Year
Total Pages376
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy