SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ॥ चंद्रराज चरित्रम् ॥ ॥ १६ ॥ **************************** www.kobatirth.org उक्तश्च - सुजीर्णमनं सुविचक्षणः सुतः, सुसाधिताऽखं नृपतिः सुसेवितः । सुचिन्त्य चोक्तं सुविचार्य यत्कृतं, सुदीर्घकालेऽपि न याति विक्रियाम् ॥ १ ॥ तथा च-सहसा विदधीत न क्रिया-मविवेकः परमापदां पदम् । वृणते हि विमृष्यकारिणं, गुणलुब्धाः स्वयमेव सम्पदः ॥ २ ॥ श्रतः शमतुलिकोपस्कृतां स्थेयसीं बुद्धिखट्वामधिष्ठाय तत्त्वं विचिनुहि, मदन्तःपुरेऽनासादितमदाज्ञोऽपरदूतो नागच्छतीत्यभिमानमदेन भवता चैव मानसं मलिनीकृतम् । प्रभो ? पश्य पश्य, पलितच्छलेनानेन जरादूतेन भवन्मस्तकं समाक्रान्तम्, जगदन्तकोऽयं जरादूतो निखिलसच्चराशिभिर्दुरतिक्रमणीयो विद्यते, इत्थं विज्ञातमहिषीवचनसारो निर्मानमानसोपशान्तक्रोधानलो नृपतिर्व्यचिन्तयत्, अहो ? करालकान्तिर्दुर्जेया जराराक्षसी समागता, यया समाक्रान्तान्यङ्गानि शिथिलीभवन्ति, केशाथ श्वेतभावं भजन्ति, दन्तश्रेणिरपि दोलारूढेव कुतोऽपि भ्रश्यति, श्रोत्रप्रमुखाचव्रातः स्वस्वकार्यविमुखो भवति - तद्यथा-मुखं बलिभिराकान्तं पलितैरङ्कितं शिरः । गात्राणि शिथिलायन्ते, तृष्णैका तरुणायते ॥ १ ॥ अन्यच्च -- दन्तैरुचलितं धिया तरलितं, पाण्यंडिया कम्पितं, हग्भ्यां कुलितं बलेन गलितं, रूपश्रिया प्रोषितम् । प्राप्तायां यमभूपतेरिहमहा - धाट्यां धरायामियं, तृष्णा केवलमेकिकैव सुभटी, हृत्पत्तने नृत्यति ॥ २ ॥ वदनं दशनविहीनं, वाचो न परिस्फुटा गता शक्तिः । अव्यक्तेन्द्रियशक्तिः; पुनरपि बाल्यं कृतं जरया ॥ गात्रं सङ्कचितं गतिर्विगलिता दन्ताश्च नाशं गता, दृष्टिभ्रश्यति रूपमेव इसते वक्त्रश्च लालायते । वाक्यं नैव करोति बान्धवजनः पत्नी न शुश्रूषते, हा ! कष्टं जरयाऽभिभूतपुरुषं पुत्रोऽप्यवज्ञायते ॥ ४ ॥ ३ ॥ For Private And Personal Use Only ****++++++++*****(08-+ Acharya Shri Kaassagarsun Gyanmandr प्रथमोनासे पञ्चमः सर्गः ॥ ॥ १६ ॥
SR No.008553
Book TitleChandraraja Charitram
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherAjitsagarsuri Shastra Sangraha
Publication Year
Total Pages376
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy