SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ ShriMahanandain AradhanaKendra Achah agarsun Gyaan १. पुनर्लघुवयसामपत्याना, शास्त्रेष्वपि प्रसिद्ध विद्यादानर |चंद्रराजचरित्रम् ॥ ॥१८॥ प्रथमोल्लासे पञ्चमः सर्गः॥ दन्ते, अपरे पुनर्लघुवयसामपत्यानां विवाहमहोत्सवं प्रतिपाद्य निजं कृतार्थ मन्वते, सा तु तेषां मूढतैव केवलं प्रतीयते, द्रव्यादिदानतो विद्यादानं श्रेयस्तरं, शास्त्रेष्वपि प्रसिद्धमेतत् तद्यथा-धनदानेन रज्यन्ते, बुद्धिहीना नराधमाः । विद्यादानरता विज्ञा--यतस्तत्तत्समुद्भवम् ॥१॥ तथा च एकतः शास्त्रविज्ञानं, सम्पदा श्रेणिरेकतः । उभयोरन्तरं लोके, महदेव विभाव्यते ॥२॥ विद्यावतां भयं नैव, सत्प्रवृत्तिविधायिनाम् । धनदारवतां लोके, भीतयस्तु पदेपदे ॥ ३ ॥ एकाऽपि कला सुकला, वचनकला किं कलाभिरपराभिः । वरमेका कामगवी, जरद्वीनां न लवमपि ॥४॥ नैव भाग्यं विना विद्या, विना विद्यां न भाषितम् । सुभाषितविहीनस्य, जीवितान्मरणं वरम् ॥५॥ मातेव रक्षति पितेव हिते नियुङ्क्ते, कान्तेव चाभिरमयत्यपनीय खेदम् । लक्ष्मी तनोतिविपुलांवितनोतिकीर्ति, किं किं न साधयति कल्पलतेव विद्या ॥६॥ तस्माद्यः सूनवे विद्याधनं ददाति सैव जनकः सुतहिततायी स्मृतः। एवं विद्याविलासरसिकश्चन्द्रकुमारः सवयोभिर्दिनान्यतिक्रामन् गतमपि समयं न विवेद, अथैकदा स आस्थानस्थित नरेन्द्रं प्रणम्य विहितोपचारः स्वोचितस्थाने समुपविष्टः, यौवनोद्भित्रिशैशवं कुमारं निरीक्षमाणो भूपतिळचिन्तयत्, दारोद्वहनक्रियायोग्योऽयं निष्पन्नस्तस्मिन्नवसरे पद्मशेखरनृपदूतो निजप्रतीहारसूचितः बद्धाञ्जलिर्नरेन्द्रपादपायोर्निपत्य सविनयं व्यजिज्ञपत् नरेन्द्ररत्न ? अस्मत्स्वामी द्विधापि गुणावली निजां पुत्री चन्द्रकुमाराय प्रदातुमुत्कण्ठतेऽतोऽस्मिन्कार्ये भवद्भिर्विलम्बो न विधेयः । इत्यनुमततद्वचनो नरेशो यथोचितं ॥१८॥ For Private And Personlige Only
SR No.008553
Book TitleChandraraja Charitram
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherAjitsagarsuri Shastra Sangraha
Publication Year
Total Pages376
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy