________________
Shri Mahavir Jain Aradhana Kendra
॥ चंद्रराज
चरित्रम् ॥
॥ १६ ॥
++++*K+++****OK+-*OK+++****OK++1.03
www.kobatirth.org
यथा च — इतस्तावद्भाव-व्यतिकर इतः सन्त्यजगरा - इतो लुण्टाकानां समुदय इतः कण्टकचयः । इतो व्याघ्रा उग्रा - ज्वलनजनका वेणव इतो वनं संलक्ष्यैतन्मन इदमहो मोहमयते ॥ १ ॥ तथैव मनोहारित्वमपि नैसर्गिकं राजते तस्य वनस्य न तु केवलं दोषग्रस्तं तत्, तद्यथा - अनायासग्राह्या - ण्यवनिपतिभोग्यान्यपिफला- न्ययत्नेन प्राप्या- नृपसुद्गपेच्याः सुमनसः । सूर्यम्पश्यान्य- यहह ? सुलभान्यश्मभवनान्यरण्यानीभाजा - मतिपतति भाग्यं किल गिरः || १ || अपि च-गहन गुहाविहारिहरिपाणिरुहाभिहत- द्विरदशिरस्तटोद्गलितमौक्तिकसंहतिभिः ।
अह विभूषितैरिव चिरं विहरन्ति सुखं सममबलाजनै रतिविलासपराः शराः ॥ २ ॥ ततो दक्षप्रकृतिस्त्वरितगुप्तगतिर्निर्भीकमानसा सानरनाथपत्नी तद्वनं प्राविशत्, तत्रोत्तरदिग्विभागेऽनवरत चङ्कमणपरिश्रान्तस्थगितमाध्याह्निकदिवाकरमण्डलभित्र तप्ततपनीयकलशं विभ्रतं भव्यजनसुकृतसारैः समूहीभूतं यशोराशिमिवासं स्तुतानामपि चेतःसु बलाद्भव्यभावं समुद्भावयन्तमादिमतीर्थकरप्रासादं दूरतो विलोकमाना सा स्वकार्यसिद्धि निश्चिकाय, प्रजविना वनजपवनेन दोधूयमानध्वज पताकाभिरागन्तुकजनान्निमन्त्रयन्तमिव तमादीश्वरप्रासादं समीपगा निरीच्य भृशं मोदमाना वीरमती सोपानश्रेणिमध्यारोहत्, श्रीमदादिनाथं बद्धाञ्जलिः सा सविनयं प्रणम्य निजापराधं चमयित्वा गुप्ताकारतया भगवतः पृष्ठप्रदेशेऽप्सरसामागमनकालं प्रतीक्षमाणा तस्थौ ततो निजसङ्केतितसमये समयवेदी दिव्याङ्गनागणोऽपि तत्र समायातः, प्रथमतस्तावत्प्रथमं स जिनबिम्बप्रदक्षिणापूर्वकमभिवन्द्य सारद्रव्यैर्द्रव्यपूजां विनिर्ममे ततोभवदावानलमेघघटां
For Private And Personal Use Only
Acharya Shri Kissagarsuri Gyanmandir
प्रथमोनासे चतुर्थः
सर्गः ॥
॥ १६ ॥