SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ ShriMahavir JanArchanaKendra Achanah Gyan मन्ये, साहसशिरोरत्न ? त्वदर्शनेन लब्धस्वास्थ्याधुना निवृत्ताऽस्मि, मत्कार्यनिष्पत्ती भवते नवलवहारं वितरिष्यामि, सुरभिभोजनसुस्वादुफलालीढौकनेन त्वामहर्निशमुपचरिष्यामि, त्वदुपकृतिं न विस्मरिष्यामि, किं बहुजल्पितेन ! त्वन्तु विज्ञोऽसि, मूर्खजनसन्निधौ विशेषतो विविच्यते, पण्डितास्तु स्तोकमात्रप्रकाशनेन निखिलभावं विदन्ति. यतः-बहुधा बोधनेनाऽपि, न जानाति विमूढधीः । तच्चातवार्थविद्विज्ञो-नोपदेशमपेक्षते ॥१॥ गोगर्दभा दण्डहताः प्रयान्ति, हयाश्च नागाश्च वहन्ति नोदिताः। अनुक्तमप्यूहति पण्डितो जनः, परेङ्गितज्ञानफला हि बुद्धयः॥१॥ भ्रातः! अधुना मे मानवयोग्यतां प्रदेहि, ऋजुभावेन मया मन्मनोभावनाऽऽविष्कृता, बुद्धिमन्नवापन्महोदधौ निमनां मां निस्तारयितुं त्वदन्यं न विलोकयामि. शुकोऽवादीत भगवति ? धैर्य धेहि, विषादं परिहर, त्रिलोकीपतिस्तव मनोरथतरुं सफलयिष्यति, अतःप्रभृति त्वत्कार्यचिन्ताविधायकोऽहमस्मि. त्वां धर्ममातरं जानामि, अतोऽन्यचिन्तां परिहत्य विशेषतो धर्मोद्यता भव, परदुःखप्रहाणे मानवधर्मे ये बद्धपरिकराः सर्वत्र लब्धविजयास्ते पुण्याकरान्प्रकटयन्ति. यतःधर्मप्रभावेण समस्तसिद्धयो, लुठन्ति हस्ते स्वयमेव देहिनाम् । न तत्समः कश्चिदपि प्रयोगो-विभाव्यते लोकहितङ्करोऽन्यः॥१॥ तथाच-धर्मोयं धनवनभेषु धनदः कामार्थिनां कामदः, सौभाग्यार्थिषु तत्प्रदः किमपरं पुत्रार्थिनां पुत्रदः। राज्यार्थिष्वपि राज्यदः किमथवा नानाविकल्पैर्नृणां, तकि यन्नकरोति किं च कुरुते स्वर्गापवर्गावपि ॥२॥ पत्नी प्रेमवती सुतः सविनयो भ्राता गुणाऽलङ्कतः, स्निग्धो बन्धुजनः सखाऽतिचतुरो नित्यं प्रसन्नप्रभुः। निर्लोभोऽनुचरः स्वबन्धुसुमुनि-प्रायोपयोग्यं धनं, पुण्यानामुदयेन सन्ततमिदं कस्यापि संपद्यते ॥ ३ ॥ For Private And Personlige Only
SR No.008553
Book TitleChandraraja Charitram
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherAjitsagarsuri Shastra Sangraha
Publication Year
Total Pages376
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy