________________
प्रथमोल्लासे
॥चंद्रराजचरित्रम् ।। ॥१२॥
चतुर्थः
सर्गः॥
धराधीशे मेदिनी शासति मनसाऽपि तव व्यलिकं विचिन्तयितुं कः प्रभुः? तस्मात्प्रसादं विधाय निजपरितापहेतुं निवेद्यास्म- त्परितप्तिं निवर्तयस्व. देवि ? इतो दृष्टिः प्रसार्यताम् , चन्द्रकुमारसमेतः सप्रियः चितिप्रियः सविलासं क्रीडते. पौरजना अपि प्रमादोज्झितचेतोभिर्निजमानिनीभिः सह क्रीडारसं स्वादयन्तो न विरमन्ति. खामिनि ? त्वन्मानसं सचिन्तं कथं जातम् ? एवमनेकधा ताभिरभ्यर्थ्यमानापि सा निजचिन्तितं कृपणधनमिव न प्रकाशयामास, प्रत्युत तद्वचनानि तच्छ्रोत्रपुटयोस्तप्त- | त्रपुसमानि जातानि. ततोऽतिदक्षलक्ष्योऽपि तत्परिजनोऽसादविषादाणेवनिमग्नस्तदन्तिके स्थितः, स्वयमप्यापत्पयोधिमना, I निर्व्यापारा, करतलनिहितवामेतरकपोला शून्यं ध्यायति, तावत्तत्प्रबलकर्मप्रभावाकृष्ट इव भव्याकृतिधारी चारुचञ्चुपुटेन नवपल्लवरुचिं वर्द्धयत्रनवममानववारचञ्चुः कश्चिच्छुकराजस्तदधिष्ठितसहकारतरुशाखां कुतोप्यागत्याधितष्ठौ.
॥ इतिश्री चन्द्रराजचरित्रे प्रथमोल्लासे तृतीयः सर्गः ॥ ३ ॥ पणमेकमध्वश्रमं विनीय परितोऽवलोकमानः स शुकराजोऽधोदृष्टिं निक्षिपन्विच्छायवदनां नृपमहिषीं विलोक्य परोपकतिरसिको मनुष्यभाषया तामभाषत, सुदति ? कोऽयं रोदनावसरः१ मधूत्सवप्रराङ्मुखीभूय कथं खिद्यसे ? रङ्गभङ्गमा विदध्याः। निजनिर्वेदकारणं तूर्ण स्वमुखेन निवेदय, येन निर्मिततत्प्रतिक्रियस्त्वां निश्चिन्तीकृत्य कृतकृत्यो भवामि, अथैवं शुकेरितरतिकरवचनानि समाकये सा यावदुई विलोकयति तावदाप्रविटपस्थितं हरितपक्षं निविष्ट, मानववाग्वादिनं तं विदित्वा जातकौतुका सा मौनमुद्रां मुमोच, रेविहग ? मदीयं मनोवृत्तं ज्ञात्वा निरुपायो भवान् किं विधास्यति ?
यतः-फलभक्षी लघुःपक्षी, सदाम्बरतले भ्रमन् । वनवासरतस्तिर्यग, विवेकविकलो भवान् ॥१॥
॥१२॥
For Private And Persone
ly