SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ ShriMahavir JanArchanaKendra Acharya:shaKailassagarsunGyanmandir तद्यथा-आपत्काले, भवति विबुधो नीतिमार्गानुसारी, तमाशायो-चरति विशदां धर्मसंस्थामखण्डम् । कार्याकार्योचितमतियुतो व्याप्तलोकप्रभावः, खिन्ना नारी, जनयति मुधा देवनं हीनबुद्धिः॥१॥ रे? दुर्दैव ? हीनभाग्यां मां किं दुनोषि ? असिन्भुवनेऽसुकृतभाजनमहमेव केवलं निघृणतया त्वया कथं सृष्टा ? | यत्स्वमगतमपि सुतशर्म मया नानुभूतम्. अज्ञातपुत्रसुखवैभवाया वनिताया जनिविफलैव, उक्तश्च-उत्पतनिपतत्रिङ्खन् , हसँल्लालावलीर्वमन् । कस्याश्चिदेव धन्यायाः, क्रोडमायाति नन्दनः ॥ १॥ पुनरपि विलपन्त्याह-स्नेहो निर्हदयो विगन्धकुसुमं निर्दीपकं मन्दिरं, निर्जीवोऽपघनो यथा चितिकलाहीना दया निष्फला।। गीतं कण्ठविहीनमब्द उदकं दानञ्च मानं विना, भोज्यं निर्लवणश्च सूनुरहितं तद्वयुवत्या जनुः ॥१॥ सुतस्पर्शरसन्नताऽनभिज्ञाया यस्सा अङ्कतन्पे न विलुठन्ति बालाः सा विधिना वृथैव विनिर्मिता, दुरन्तदुःखैकभाजनं | तदवतारं धिगस्त, किंबहुना तथाविधानां मन्दतमभागधेयानामजनिरेव श्रेयसी. किञ्च पुत्रमृते देशद्रङ्गग्रामनगरनिधिप्रमुखसमृद्धयः कोपयुज्यन्ते ? संयम्यतिथि पतत्रिप्रभृतयः केऽपि निरीक्षणमात्रतोऽप्यनपत्यनिकेतनं न पावयन्ति, तन्मुखमपि विभातेऽद्रष्टव्यमिति जना जानन्ति, अहो ? प्राक्तनजन्मनि मया तादृशं किं कर्म समाचीर्ण ? यस्मादेकोऽपि मे मनोज्ञस्तनयो देवेन न वितीर्णः। मुहुरेवं विलपन्ती सङ्कुचितक्रमाङ्गुलिभिरधोगतिद्वारमुद्घाटयन्तीव भूपीठं विलिखन्ती सा नयनयोः श्रावणनमस्यौ वहमाना नानातर्कपरायणाजनि । ताहगवस्थामनुभवन्ती निजस्वामिनी दृष्ट्वा तत्सखीजनो विस्मितः प्रोवाच, पूज्यपादे? भगवति ? प्रवर्त्तमानेऽस्मिन्महोत्सवेऽकाण्डे कुतस्ते कश्मलं समुत्पन्नम् ? दलितरिपुदले सन्जकोदण्डदरडे वीरसेन For Private And Personlige Only
SR No.008553
Book TitleChandraraja Charitram
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherAjitsagarsuri Shastra Sangraha
Publication Year
Total Pages376
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy