SearchBrowseAboutContactDonate
Page Preview
Page 359
Loading...
Download File
Download File
Page Text
________________ तयोधर्मलाभाशिषोवहमाना गुणशेखरादयस्तमनुजग्मुः, ततो निवर्तमाना:सर्वे सपरिवारंप्रभुवन्दित्वा स्वस्वाभिधेयग्रहणपूर्वकंप्रोचुः । भगवन्तः! इतोनिर्गता यूयमस्मासुसर्वथानिःस्नेहाभविष्यथ, यतः-मथितहृदयशान्ति दुष्टभावाकुराणां, सजलजलधरं द्राक् हृद्यसन्तोषशोषम् । प्रथितविपुलकीर्चिक्षोभकं लोकरागं, शमितविकृतिवर्गा वर्जयन्ते मुनीन्द्राः ॥१॥ वयन्तु संसारवासिनोयुष्मद्विषये निःस्नेहतांकथंगमिष्यामः,मवद्भिविस्मरिष्यमाणाअपिवयंभवद्विस्मरणे नप्रभवः,-तात ! तातेति जन्पन्तः, सुतास्तृप्ति प्रयान्ति नो । चिरन्तनो हि सम्बन्धो-दुस्त्यजो भववासिनाम् ॥१॥ तथा च-छमस्था नविजानतेधूतिमा धैर्यप्रभावं परं, मौनं मौनवतां सदैव सुखदं शंसन्ति नो वाग्मिनः । नाचारं प्रविदन्ति वारवनिता धर्मार्थिनीनां शुभं, सन्तः सद्गुणसेविनो हि नितरां सद्भावना जानते ॥२॥ इतिश्री चन्द्रराजचरित्रं चतुर्थोल्लासे दशमः सर्गः ॥ १० ॥ भगवन् ! त्वया ज्ञातसारेणेयंराज्यसम्पत्तिः परिहता, मुग्धमतिभिरस्मादृशैः कथं सा त्यक्ष्यते । मुनिपुङ्गच १ चिरकालीन मस्माकंस्नेहंदैहिकंमलमिवविनिर्भिद्य शाश्वतसुखनिदानमद्वितीयपथमापन्नोऽसि । भन्या दिनानिगमयन्ति मुधा न विज्ञाज्ञाते हि तत्त्वनिचये किमु मुढभावः । नेत्रप्रदीपमनवाप्य जनोऽन्धकारे, दक्षोऽपि वस्त्वनुभवं कुत एव कुर्यात् ।।१।। भगवन् ! तपश्चारिणांभवद्विधानानिःस्पृहाणामस्मास्वधीनंकार्य कुतःकल्पते ? यतः-यस्माद्वितपरम्पराविघटते दाखं सुराःकुर्वते, कामः शाम्यतिदाम्यतीन्द्रियगणःकन्याणमुत्सर्पति । उन्मीलन्ति महर्द्धयः कलयति ध्वंसं च यत्कर्मणां, स्वाधीनं त्रिदिवं करोति च | शिवं श्लाघ्यं तपस्तन किम् ? ॥१॥ परन्त्वस्माकमेषा सविनयाऽभ्यर्थना भवताऽर्थवती विधातव्या-प्रभो ? नैवोपेक्ष्यास्तव पद For Private And Personale Only
SR No.008553
Book TitleChandraraja Charitram
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherAjitsagarsuri Shastra Sangraha
Publication Year
Total Pages376
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy