________________
|चंद्रराजचरित्रम् ॥ ॥१६॥
समारभ्य, लक्ष्यबिन्दुश्च साध्यते । कृताऽमृताऽनुष्ठानास्ते, चिदानन्दस्वरूपिणः ॥१२ ।। स्वस्वरूपं ततः प्राप्या-ऽनन्तकाल- चतुयानास समावृतम् । लभन्ते केवलज्ञानं, त एव तत्त्ववेदिनः ॥ १३ ॥ अनिलेश्यास्ततः प्रान्ते, कृत्वा योगनिरोधताम् । एरण्डवीजब- सप्तमः त्यक्त्वा, देहं यान्ति परां गतिम् ॥ १४ ॥ साधनन्तस्थितिं लब्ध्वा, जीवो नावर्त्तते पुनः । यत्र संसारमूलानां, कर्मणां सर्व- सर्गः॥ दालयः ॥ १५॥ तस्माद्भोभव्याः ! व्याबाधविकलमक्षयसुखंसमीहमाना अहिंसामूलंसद्धर्ममाराधयत । यतः
पठितं श्रुतश्च शास्त्रं, गुरुपरिचरणं गुरुतपश्चरणम् । घनगर्जितमिव विपुलं, विफलं सकलं दयाविकलम् ॥ १ ॥ अतो| दयाहीनधर्मोन साध्यते । यतः-अहिंसासंभवो धर्मः, स हिंसातः कथं भवेत् । न तोयजानि पद्मानि, जायन्ते जातवेदसः ॥१॥ तस्माद्दयामूलसर्वज्ञप्रणीतधर्ममनाराध्य प्राणिनःशिवसुखनैव प्राप्नुवन्ति, यतः-अपूर्वमुखमिच्छन्तो-भव्याः ? भावसमन्विताः । सर्वज्ञकथितं धर्म, निषेवध्वं यथाविधि ॥१॥ शान्तं सुधारसं पीत्वा, तत्वदृष्टिविधीयताम् । यत्यतां कर्ममोक्षायऽ-भीष्टसिद्धियतो भवेत् ॥ २ ॥ करस्थकङ्कणं दृष्टु-मादर्श इव निष्फलम् । अन्यदृष्टान्तमत्रार्थे, मत्तोऽनुभविनोयुधाः । ॥३॥
एवंश्रीमुनिसुव्रतस्वामिनःसुधामयींदेशनांसमाकर्य चन्द्रराजप्रमुखाःसर्वे सभ्या उल्लसितचेतसोबभूवुः । वैराग्यवासितान्तः | करणाः केऽपि यथोचितव्रतनियमजिघृक्षवोजातास्तदानींचन्द्रराजोरचिताञ्जलि समुत्थाय प्रभुप्रणिपत्य पृच्छति-कर्मणाकेनमन्माता, कुकुटं मां विनिर्ममे । नटैः सार्द्ध ममावासः, कथं जातो जगत्प्रभो ? ॥ १॥ प्रेमलासन्निधौ केन, कर्मणान्यवसं सुखम् । * सिद्धाद्रिसंगतोई द्राक्, कथं मानवतां गतः ॥ २॥ हिंसकेन कथं छद्म, विहितं कनकध्वजः । कर्मणा केन कुष्ठित्वं, प्राप्तवान्परमेश्वर? ॥३॥ गुणावल्याः पुनर्योगो,-ऽभवन्मे केन कर्मणा । प्रभो ? मत्संशयान्सर्वान् , छिन्धि ज्ञानाऽसिना द्रुतम् ।।४।। ॥१६॥
For
And Persone
ly