________________
Acharya hi
s agarten Gyomande
चतुर्थोवासे
चंद्रराजचरित्रम्॥ ॥१५॥
सप्तमः सर्गः॥
मोक्षालयप्ररोहाय, निःश्रेणीमिव शोभनाम् । सोपानश्रेणिमारुह्य, ददर्श मुनिपुङ्गवम् ।।१।। ततः सपरिवारः स, कृतवन्दन- सद्विधिः। प्रदक्षिणात्रयं कृत्वा, परमानन्दभागभूत् ॥२॥ द्वादशधा परिषदः, स्वस्वस्थानस्थिताः खलु । परमात्ममुखाम्भोज-ध्यानासक्तैकचेतसः ॥३॥ अध्यात्मपटसत्तुरी, भववनीकुठारिकाम् । सद्देशनां समारब्धां, प्रभुणा शुश्रुवुर्मुदा ॥ ४ ॥ तद्यथा-मिथ्यात्वप्रमुखैः सप्त-पञ्चाशद्वन्धहेतुभिः। जीवः कर्माणि बध्नाति, भवार्णवनिमज्जितः ॥५॥ मूलप्रकृतयस्तेषां, ज्ञानावरणीयादयः । अष्टौ सन्ति विरोधिन्यो-मोक्षमार्गस्य देहिनः ॥६॥ उत्तराश्च स्मृता अष्ट-पञ्चाशदधिकं शतम् । पनादिकर्मवश्योऽयं, विस्मृत्यात्मस्वरूपकम् ॥ ७॥ विभावनादशायां हि, रमतेऽशुद्धवृत्तिकः । कर्मराजबलं तस्माद् , भूयिष्ठं वर्तते भवे ॥८॥ असंख्यातप्रदेशाच, संति जीवस्य विश्रुताः । तेषामष्टप्रदेशेषु, कर्माणि प्रभवन्ति नो ॥६।। अत एवास्य जीवस्य, स्वरूपं नैव लुप्यते । यदि कर्मावृतास्ते स्यु-र्जीवोऽजीवत्वमाप्नुयात् ॥१०॥ अनादिकालतो जीवो-दृढकर्मभिरावृतः। स्वज्ञानादिगुणा
द्रष्टो-जायते मूढधीषुवम् ॥११॥ मिथ्यात्ववासितोऽशुद्ध-पद्धती पतितो निजम् । अनात्मवस्तु मन्वानो-भ्राम्यति क्षुभितो भवे | ॥१२॥ मदच्युत्करिणः स्कन्धे, द्विरेफालीव मूढधीः । पौद्गलिकपदार्थेषु, न जहाति भवाटवीम् ॥१३॥ मूलस्थानञ्च जीवानां,
निगोदं सूक्ष्ममुच्यते । तच्चाऽव्यवहारराशि-रिति लोके प्रचक्ष्यते ॥ १४ ॥ केशाग्रप्रमिताकाशे, तत्रासंख्यातगोलकाः । असं. | ख्याता निगोदस्थाः, पुद्गलाः प्रतिगोलकम् ॥ १५ ॥ प्रत्येकतच्छरीरेषु, ह्यनन्ता जीवराशयः । सूक्ष्मत्वात्तत्स्वरूपश्च, जानन्ति विबुधोत्तमाः ॥१६॥ अनादिकालतो जीवाः, सन्ति सूक्ष्मनिगोदगाः । तेषां भाग्यबलेनैव, जीवानां मावियोगतः ॥ १७॥ कश्चिद्वयवहारराशि, भजते बादराभिधम् । ततो विनिर्गतो जीवो-जायते विकलेन्द्रिये ।। १८ । तस्मानिर्गत्य तज्जीव-स्तिर्य
॥१६॥
For Private And Personale Only