SearchBrowseAboutContactDonate
Page Preview
Page 323
Loading...
Download File
Download File
Page Text
________________ ShriMahavir JanArchanaKendra Acharya:shaKailassagarsunGyanmandir वलीप्रासादंगतः। अनन्यमोदा सा नूतनारसवतीनिष्पाद्य स्वभारंभोजयित्वा भृशंतुष्टा तंमोदयामास, तथैव-अभिन्नवृत्तयः सर्वा-महिष्यो नृपतेर्वराः । क्रीडमाना न जानन्ति, सपत्नित्वं मिथोगताः॥१॥ तेन पट्टपदं दत्तं, पार्थिवेन दयालुना । गुणावल्यै समीक्ष्यैत-न्मुदिता योषितोऽपराः ॥२॥ सुखेन पालयन्त्राज्यं, चन्द्रराजनरेश्वरः । नीतिमार्गविदा मान्यो-जनानां वल्लभोऽभवत् ।। ३ ॥ अथैकदा रहोगतंचन्द्रराजंसकौतुकंगुणावली प्रत्यवदत्--पोडशाब्दी मया नीता, विरहव्यथया प्रभो ? । त्वदर्शननिदानन्तु, जानामि प्रेमला ध्रुवम् ॥ १॥ वीरमत्या समं नाह -मब्रजिष्यं विशांपते ? । विमला प्रेमला तर्हि, पर्यणेष्यत् कथं भवान् ॥२।। अतोऽहमुपकारकारिणी तव जाताऽस्मि, ईषद्विहस्य चन्टगजोभणति-शशिवदने ? इतोऽप्यधिकासुपकृतिकिन स्मरसि--इयन्तं समयं याव-त्पक्षित्वं प्राप्तवानहम् । तामप्युपकृति मन्य, वदीयामेव शोभने ?॥१॥ गुणावली पुनः सस्मितमाह-यदि त्वं कुक्कुटो नाभू-स्तदा त्वद्गमनं कुतः । विमलाद्रौ महातीर्थे, सुखावाप्तिश्च दुर्लभा ।। १॥ मद्दोषान्माविलोकस्व, गुणग्राही भव स्वयम् । महात्मनामयं पन्था-विश्रुतः प्राणवल्लभ ? ॥ २॥ यतः-मनसि वचकाये पुण्यपीयूषपूर्णा-त्रिभुवनमुपकारश्रेणिभिः प्रीणयन्तः । परगुणपरमाणूपर्वतीकृत्य नित्यं, निजहृदि विकसन्तः सन्ति सन्तः कियन्तः ।। ३ ।। किश्च--मन्दमत्या मया दुष्ट-श्वश्रूशिक्षणमादृतम् । तत्फलं विपुलं लब्धं, कृतकमोनुसारतः ॥ ४ ॥ शास्त्रेऽपि स्त्रीबुद्धिःक्षुद्रभावा निगद्यते--यतः--आत्मबुद्धिर्हितायैव, गुरुबुद्धिर्विशेषतः । परबुद्धिविनाशाय, स्त्रीबुद्धिः प्रलयान्तिका ।। १ ॥ स्वामिन् ? प्रमदासर्वदाविश्वसनीयाः--अनुचितकारम्भः, स्वजनविरोधो बलीयसा स्पर्धा । प्रमदाजनविश्वासो-मृत्युद्वाराणि चत्वारि ॥१॥ तथाच-अबला यत्र प्रबला, शिशुरवनीशो निरक्षरो मन्त्री । नहि नहि तत्र धना For Private And Personlige Only
SR No.008553
Book TitleChandraraja Charitram
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherAjitsagarsuri Shastra Sangraha
Publication Year
Total Pages376
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy