SearchBrowseAboutContactDonate
Page Preview
Page 321
Loading...
Download File
Download File
Page Text
________________ मत्प्रार्थनां परिहरन् , न त्वं क्षत्रकुलोद्भवः । स्त्रीहत्यापातकं दास्ये, नो गृहीष्यसि मा यदि ॥१॥ यदि क्षत्रकुले जाता, परकार्यरतो यदि । तदा दीनतराया मे, प्रार्थना स्वीकुरु प्रभो ॥२॥ चन्द्रराजोवदति-सुभगे ? स्त्रीहत्यापातकादपि शीलभङ्गापापविशेषतरंनिगद्यते यतः-दत्तस्तेन जगत्यकीर्तिपटहो गोत्रे मषीकूर्चक-चारित्रस्य जलाञ्जलिर्गुणगणाऽऽरामस्य दावानलः । सङ्केतः सकलापदां शिवपुरद्वारे कपाटो दृढः, शीलं येन निजं विलुप्तमखिलंत्रैलोक्यचिन्तामणिः ॥१॥ सुमते ? पुनस्त्वंशृणु-पुरा सीतां समीहानो-रावणः का दशां गतः । पद्मोत्तरनृपो हृत्वा, द्रौपदी दुःखितोऽभवत् ॥ १॥ अहल्ल्याः सङ्गमादिन्द्र-स्तद्भर्तुः शापमीयिवान् । सहस्रभगतां प्राप्तः, शीलखण्डनतश्च वै ॥२॥ हिमालयसुतामिच्छन् , वीरभस्मा दोऽसुरः । पापकर्मरतः सद्यो-भस्मीभूतोऽभवत्खलु ॥ ३ ॥ आयुष्मति ? परदारसङ्गरतःकामुखी जातः १ योद्यखण्डितंशीलव्रतपालयति स ऐहिकंसुखमनुभूय पारमार्थिकंसुखंलभते, प्रमदाजनस्तु भवार्णववर्तिनामश्मगणायते, किंवा शृङ्खलायते, परप्रमदालोहपुत्तलिकामिवसमालिङ्गथ कियन्तःपुरुषा भवार्णवे निमज्जिता अद्यापि ते तस्मादुन्मजितुमप्रभवः । किञ्च-ललिताङ्गकुमारोऽपि, परस्त्रीसङ्गमोत्सुकः । असह्यदुःखमापत्रः, कामबहानिपीडितः ॥ १॥ शोभनाङ्गिानाहंकाम* सुभटेन पराजितः, यतोभवाटव्यांपरिभ्रमन्नसह्यदुःखभाजनंभवामि, मानिनि ? स्त्रीहत्याभयेनशीलव्रतंनखण्डयिष्यामि । योहि भवनिवृत्तिमाकांक्षमाणः, परिणीतामपि भार्यामुपेक्षते तस्य मोक्षसुखंसुलभभवति, कामाग्निज्वलितोनरोभवान्तरेष्वपि दुःखराशि| मनुभवति, किंबहुना त्वामहं धर्मभगिनीं, वेधि वा धर्ममातरम् । तस्मात्ते सत्कुलीनाया-वक्तुमेतन्न साम्प्रतम् ॥ एवंशीलवते दृढमर्तितनरेशविज्ञाय स देवस्तुष्टमानसःसद्यःखेचरीरूपं विहाय निजरूपंप्रकटीचकार, सत्यसङ्गरस्य चन्द्रराजस्य मूर्ध्नि पुष्प For Private And Personale Only
SR No.008553
Book TitleChandraraja Charitram
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherAjitsagarsuri Shastra Sangraha
Publication Year
Total Pages376
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy