SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ॥ चंद्रराजचरित्रम् ।। ॥ ६ ॥ *O***O**** +++++→ www.kobatirth.org अपि च - जाड्यं धियो हरति सिश्चति वाचि सत्यं, मानोन्नतिं दिशति पापमपाकरोति । चेतः प्रसादयति दिनु तनोति कीर्ति, सत्सङ्गतिः कथय किं न करोति पुंसाम् ॥ ३ ॥ यो हि सत्सङ्गरङ्गरञ्जितः कोशगतेलिका भ्रमरीत्वमिवाईततच्चमवाप्तवान्, सर्वज्ञोदितधर्ममानससितच्छदेन तेन भूपतिना गगनाङ्गणचुम्बिभिर्निजयशोराशिभिर्हिमानीगौरैरै प्रतिमैर परिमितैर्जिनेन्द्रप्रासादैर्भू तलमभूष्यत, विशेषतश्च साधुसाध्वीनां परिचर्यया तस्य दिनानि ययुः । यतश्रोक्तम् - यस्य धर्मविहीनानि दिनान्यायान्ति यान्ति च । स लोहकारभस्त्रेव श्वसन्नपि न जीवति ॥ १ ॥ अथ चन्द्रकुमारोऽष्टहायनदेशीयोऽजनिष्ट, विद्याग्रहणयोग्यवयसं तं विज्ञाय विद्वज्जनधुर्यकलाचार्य सन्निधौ मुमोच बुद्ध्या वाक्पतिसमानः स क्षयोपशमवशात्साचिमात्रगुरुः स्तोकेन समयेन निखिलकलापारश्वाऽजायत। ततस्तस्मिन्भूपतौ चरणसरोजनताया जनतायास्त्रातरि महीं शासति कृतगलन्मकरन्दस्वादानां मधुपानां सन्ततिं प्रमोदयन्मधुः प्रादुरभूत् । अपहृतरमजना विरहिणो जनाः साश्रुभी रमणीयैर्लोचनैर्विकस्वरत रुराजिनवनवाङ्कुरलीनामलीनां संहतिमीचितुं न शेकुः, कुसुमचापजनके सूक्ष्मे चम्पकरेणौ निपतति विधुरमतिरध्वगोऽमरकामिनीमित्र मनोरमगिरं निजवल्लभामस्मरत्, नागकेसरतरोः कलिकालं कजलश्यामं मधुकरं विभ्रती मनोऽभीष्टनाथव सतावप्राप्तानां वनितानां मन्मथव्यथामकरोत् । प्रविकसदम्बुरुहं धुनाना नानामधुरसमास्वादयन्ती षट्पदराजि: कामिनो मनोऽभिनद्. सहकारतरूणां मञ्जरीमत्ताः कोकिलाः कामिजनवल्लभां कामकलां शिक्षयन्त इव परितो निनेदुः । लोहितकुसुमौघनिचितपलाशपादपैर्मण्डिता मेदिनी सानुरागेव For Private And Personal Use Only 08+**CK+******+******+++**CK+++ Acharya Shri Kassagarsuri Gyanmandir प्रथमोनासे तृतीयः सर्गः ॥ ॥ ६ ॥
SR No.008553
Book TitleChandraraja Charitram
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherAjitsagarsuri Shastra Sangraha
Publication Year
Total Pages376
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy