________________
सुतजन्महर्षितोऽर्थिजनानां दारियं दलयामास, कारागृहसविनो जनान्मोचयामास, पकान्नादिभोजनवसनाभरणप्रदानेन स्वजनवर्ग यथोचितं सन्तोष्य द्वादशेऽति वृद्धजनसङ्गतेन स्वप्नानुसारेण निशारत्नमिव निजान्वयं द्योतयिष्यतीत्यर्थविदा पित्रा चन्द्र इत्यन्वर्थनामा निजाङ्गजश्चक्रे, सच परितो विसारिणा निजतेजोनिकरेण सहस्ररश्मिरिव दिग्मण्डलमुद्योतयामास, सुरशाखीव गुणैः क्षपाकर इव कलाभिश्च प्रत्यहं स कुमारो ववृधे, पञ्चभिर्धात्रीभिः पान्यमानो निजाङ्गुष्ठसञ्चारिपीयूषपानेन स वाल: परमां तृप्ति जगाम,-पुरैव विषादवासितचेता वीरमती विभक्तपतिसुखकामा भूयांसमवसादमुवाह, इदानीन्तु राज्यहरं पुत्ररत्नं निरीक्ष्य तन्मानसकुण्डे प्राक्प्रधूमितः प्रकोपानिः प्रज्वलितोऽभूत् । विजितमारमूर्ति कुमारं निरीक्षमाणस्य नरेशस्य हृदयकुहरे प्रमोदावकाशो न बभूव, पुत्रजन्मनैव तेन स्वजन्मसार्थक्यममानि । चन्द्रकुमारोऽनेकविधबालचेष्टनैः सवयोमिः सार्क क्रीडमानो निजपित्रोर्मानसं प्रीणयामास, मातापित्रोः सविशेषप्रयत्नेन निजकलाश्चन्द्र इव चन्द्रकुमारः शरीरावयवान्पुपोष. रूपसम्पच्या मन्मथदप दूरीचकार, वाग्विलासेन सुरगुरुकीर्तिमनुससार, धैर्यगुणेन चीरनिधिमनुचके, इतश्च चन्द्रावतीराज्ञी जिनधर्मेऽतीव दक्षाऽऽसीत् , तत्सङ्गतिरङ्गतो वीरसेनो दयामूलं जिनोपज्ञमहिंसाधर्म प्रतिपेदे, तन्मानसं च क्रमेण सम्यक् जिनधर्मवासितं जडे, प्रत्यहं प्रकृष्टभावनाभावितमानसो मानवपतिर्विशेषतो मुनिजनशुश्रुषाप्रियोऽभवत् , अहो? सत्सङ्गः किं न जनयति,? यतः-सत्सङ्गाजायते बुद्धि-निर्मलाऽधर्मसेविनाम् । तस्मात्सत्सङ्गतिः श्रेष्ठा, विधातव्या सुखाथिभिः ॥ १॥ तथाच-सत्सङ्गाद्भवति हि साधुता खलानां, साधूनां न हि खलसङ्गमात्खलत्वम् ।
आमोदं कुसुमभवं मृदेव धत्ते, मृद्गन्धं न हि कुसुमानि धारयन्ति ॥ २॥
For
And Persone