________________
वीरमत्या, कुक्कुटः स विनिर्मितः । सिद्धाचलं गतस्तत्र, सूर्यकुण्डे निमज्जितः ॥२॥ तत्प्रभावेण मानुष्यं, प्राप्तवान् शीलसंयुतः। अधुना पोतनपुरे, तिष्ठत्येष नरेश्वरः ॥३॥ शीलात्तं भ्रंशितुं भूपं देवो विद्याधरोऽधश । नैव शक्तोऽस्ति लोकेऽस्मिन् , धर्मशक्तिर्गरीयसी ॥४।। इति शक्रवचः श्रुत्वा, कश्चिच्छूद्धापराङ्गमुखः। तत्परीक्षाकृते देवः, सद्यस्तत्र समाययौ।।विद्याधरीस्वरूपं स-विकुळ सुमनोहरम् । निशीथे वाटिकावासे-रुरोद करुणस्वरम् ॥ ६ ॥ क्षीणनिद्रश्चन्द्रराजोरुदनस्वरंश्रुत्वा व्यचिन्तयत्अहो ? अर्द्धरात्रसमये दीनमुखी काचिदबला रोदिति, तत्कारणन्तु मया विज्ञातव्यमिति ध्यात्वा परोपकृतिकुशलःस खड्गसहायःसद्यस्तच्छब्दानुसारी तामेव वाटिकामगात् । निजतेजसा वृक्षघटांद्योतयन्ती मीनध्वजदीपमालामिवभासमानांदीव्यालङ्कारभूषितांतांविद्याधरीं विलोक्य विस्मितमानसःस तांप्रत्यवदत् । सुन्दराङ्गि ? निशीथिन्या, केन दुःखेन रोदिषि । कथमेकाकिनी चात्र, संस्थिता वं वदासि का ? ॥१॥ मा बिभेहि मदीराति , मत्तः शङ्कस्व मा भयम् । त्वदुःखं नाशयिष्यामि, बेहि निःशङ्कमानसा ॥२॥ इतिप्रगल्भंपुरुषाधिराजस्य वचोनिशम्यस्वांगोपयन्ती सा सविस्मयमाह। " राजन्नवेहि मां विद्या-धर वंशसमुद्भवाम् । दुःखार्णवनिमग्नाऽस्मि, कियदुःखं वदाम्यहम् ॥ १॥ क्रूरभावो मम स्वामी, रुष्टो मुक्त्वाऽत्र मां गतः । दीनां काऽपि न तच्छुद्धि, जानामि पार्थिवोत्तम ? ॥२॥ अनाथाऽहं क गच्छामि, कावलाया गतिमम । अतो रोदिमि भूजाने ? योषितां हि बलं कियत् ॥ ३॥ यतः-दुर्बलस्य बलं राजा, बालानां रोदनं बलम् । बलं मूर्खस्य मौनत्वं, तस्करस्यानृतं बलम् ॥ ४॥ अतोमे रक्षणंकुरु, रुदन्तीमांत्यक्तुंनाहसि, त्वामेव पतित्वेनाहंवृताऽस्मि, दुःखारणवान्मांसमुद्धत्य विजयी भव, क्षत्रियर्षभ? मत्प्रार्थनामङ्गीकुरु, क्षत्रिया:शरणागतवत्सला:श्रूयन्ते, परोपकारप्रवर्णपुत्रकाचिदेव
For Private And Personale Only