________________
॥चंद्रराजचरित्रम् ॥
चतुर्थोखा। सेपञ्चमः सर्गः॥
॥१५॥
|॥ ४॥ ततश्चन्द्रनृपो गत्वा, मकरध्वजभूभृतम् । विनिवेद्य निजां वार्ता, स्वप्रयाणमयाचत ॥ ५॥ नृपरत्न ? नमस्तुभ्यं, महोपकृतिकारिणे । तवानृण्यं कथं गन्तुं शक्नोमि जीवितावधि ॥ ६॥ अधुनाज्ञां प्रदेहि त्वं, मत्पुर्या यामि सप्रियः । त्वत्स्नेहपाशबद्भस्य, हृदयं मेव तिष्ठति ।। ७॥ क्षेमवाचों कृपां कृत्वा, प्रेपितच्या ममोपरि । विस्मर्तव्यस्त्वया नाऽयं, जनस्त्वद्ध्यानतत्परः ॥ ८ ॥ इति विदितचन्द्राभिप्रायोमकरध्वजस्तद्रिरक्षया बहूनुपायानकरोत्तथाऽपि तेन निजसङ्कल्पोन मुक्तस्तदा पुनरपि स तंप्रत्यवदत् -
राजन्ननाविष्कृतदानराजि-दन्ती कराभ्यां स्थगितो न तिष्ठेत् । निबद्धलोकैः कृषिकर्म नश्ये-द्विभूषणं मार्गितमल्पकालम ॥१॥ प्राघूर्णकाः किं गृहकार्यदक्षा, वैदेशिकप्रेम कियचिरं स्यात् । अतः सुखेन स्वपुरं ब्रजस्त्र, गृहीतमन्मानसशम्बलस्त्वम् ।।२।। रोद्धं न शक्तोऽसि भवन्तमद्य, राजन्स्वकीयां कुरु कार्यसिद्धिम् । इत्युक्तवान्भूपतिरुच्चभावः, प्रयाणसंभारमचीकरत्नाक् ॥ ३॥ ततश्चन्द्रराजःप्रमुदितो निजोतारकंगत्वा स्वसामन्तान्सद्यःसन्जयामास, इतो मकरध्वजःप्रेमलांसमाहूयप्रोक्तवान्-वत्से! त्वं जीवितं मेऽसि, मन्ये त्वां गुणसारिणीम् । त्वद्भाऽऽभापुरी यातु-मुत्सुकोऽस्त्यधुना निजाम् ॥१।। तत्र यातुं तवेच्छाऽस्ति, किंवह स्थातुमिच्छसि ।। ब्रूहि यद्रोचते तुभ्यं, तद्व्यवस्था करोम्यहम् ।।२।। लजांनाटयन्ती सा जगाद-तात! वं किं न जानासि, सतीनां चरितं वरम् । छायेव भर्तृसंयोग, सती नैव विमुञ्चति ॥ १ ॥ यतश्चोक्तम्-सतीमपि ज्ञातिकुलैकसंश्रयां, जनोऽन्यथा भर्तृमतीं विशङ्कते। अतः समीपे परिणेतुरिष्यते, प्रियाप्रिया वा प्रमदा स्वबन्धुभिः ॥२।। तथाच-मुदं विषादः शरदं हिमागम-स्तमो विवस्वान्सुकृतं कृतघ्नता । प्रियोपपत्तिः शुचमापदं नयः, श्रियः समृद्धा अपि हन्ति दुर्नयः ॥ ३॥ अन्यच्च-अर्थो नराणां
॥१५
For Private And Personale Only