________________
सा सद्योमृत्वा षष्ठीनिरयभूमिमगमत् । अहो ? दुर्जनलोकानां, निजकर्मानुसारतः । सुलभा दुर्गतिर्मन्ये, दुर्लभा सुगतिः पुनः *॥१॥ चन्द्रराजशिरसि कुसुमवृष्टिंविधाय जयशब्दकुर्वन्तोदेवा नभस्तलंगर्जयामासुः। वीरमती तत्र घोरतमंदुःखमनुभय | भवसागरे निममञ्ज, योहि धर्मभृतां वरमुत्पादयते स दुरन्तांगतिलभते । ततश्चन्द्रराजः समुदतवैरिशन्योविमलापुरींसमागतः। जयदुन्दुभिनादंशृण्वानोमकरध्वजोऽअमितप्रमोदमासाद्य स्वकीयमर्द्धराज्यंतस्मै ददौ, महानन्दनिमग्ना प्रेमलालक्ष्मी रचिताअलिःक्षणमपि स्वपतिसान्निध्यनात्यातीत् । मिलितमानसौ तौ दम्पती सुखविलासाननुभवतःम । अथ चन्द्रराजःप्राप्तमङ्गलोवीरमतीमरणवार्तादेवमुखेन गुणावलींव्यजिज्ञपत् । स अमरस्तद्वात्तस्यै निवेद्य स्वस्थानमगमत् । अमृतोपमंतद्वचनंनिपीय गुणावली प्रसन्नहृदया निजमन्त्रिणंसमाकार्य तद्वृत्तान्तमचीकथत् । सोऽपि प्रफुल्लबदनोऽब्रवीत्
देवि ? दुःखोदधिर्जातो,-गोष्पदप्रः सुदैवतः । फलितं प्राक्तनं पुण्यं, साम्प्रतं सफलं जनुः ॥ १॥ श्रुतैतद्वृत्तान्ताः पौराअपि सप्रगदास्तदर्शनाऽभिलापुका निजाभीष्टदेवान्प्रार्थयामासुः । देव देव ? जगत्स्वामिन् , चन्द्रराजस्य दर्शनम् । अस्माकं तृप्तिदं शीघ्र, जायतां कृपया तव ॥१॥ सर्वलोकैमिलित्वाऽथ, दत्तपत्रः पुमान्वरः । तमामन्त्रयितुं दक्षः, प्रेषितो विमलापुरीम् ॥२॥ ततःप्रसन्नमुखीगुणावलीवचेतसिव्यचिन्तयत्-ममचेतोहरो भर्ता, सौराष्ट्र संस्थितोऽधुना । प्रादर्शयत्स्वखमृत्वं, प्रेमला मे सपत्न्यपि ॥ १॥ यतस्तद्यत्नतो जातो-मत्पतिर्मानवो ध्रुवम् । तयैव युक्तितस्तस्य, रक्षणं विहितं सुखम् ॥ २॥ श्वशुरा- 1 लयवासेन, पुमाँल्लाघवमाप्नुयात् । गत्वेति तं वदेत्कश्चि-दत्रागच्छेत्स सत्वरम् ॥३॥ रे ! दैव ! वारितरङ्गवन्मन्मनोरथास्तव विलीयन्ते, अहो ? दरिद्रिणामीदृश्यवस्थितिस्तथाऽपि धैर्यसमाधेयम् । यतः-धैर्य न त्याज्यं विधुरेऽपि काले-तथाच-दरिद्रता
For
And Persone Oy