SearchBrowseAboutContactDonate
Page Preview
Page 301
Loading...
Download File
Download File
Page Text
________________ ShriMahavir JanArchanaKendra Acharya:sha.kathssagarsunGvanmandir सा प्रियतमा न मे विस्मर्तव्या, एवं चिन्तयतस्तस्य प्रभातसमयोऽजनि यथा-कुकुटे कुति काण-माननं श्लिष्टयोस्तयोः । दिवाकरकराक्रान्तं, शशिकान्तमिवाबभौ ॥१॥ नभोवनं नक्तमसौ विगाय, नक्षत्रसेनासहितः शशाङ्कः । कराग्रलग्नान्कतिचित्प्रहृत्य, पान्थान्प्रभाते प्रपलायतेऽद्य ॥२॥ दिशि दिशि मृगयन्ते वन्गुना घासमेते, मुहुरपगतनिद्राः सप्तयो हेषितेन । अयमपि च सरोषैः कामिभिः श्रूयमाणो-नदति मधुरतारं ताम्रचूडोऽतिरक्तः ॥ ३॥ द्रुमाः पाण्डुप्राया-धृतनिबिडगर्भाः स्त्रिय इव । प्रफुल्लास्ते कुन्दा-नृपतिकृतमाना इव जनाः। पिको मन्दं मन्दं, हृदि मदननामानि जपति । प्रभोरग्रे पूर्वा-ऽपरिचितसभाकः कविरिव ॥ ४ ॥ ततः सुखशय्यांविमुच्य विहितनित्यकमोनुष्ठानः स निजहस्तेन सुन्दरलेखमलिखत इति श्री चन्द्रराजचरित्रे चतुर्थोल्लासे तृतीयः सर्गः ॥ ३ ॥ मरुदेवीसुतं वन्दे, मोक्षदं सुखसेवधिम् । यतोऽखिलमनोवाञ्छा, सिद्ध्यति प्राणिनां सदा ॥ १॥ श्रीमदामापुरीवासा, ऽनेकवर्योपमायुता । गुणावली महाराज्ञी, सद्गुणालीधरा वरा ॥२॥ गाम्भीर्येण जितोदन्वा, क्षमया विजितचमा । रूपनिर्जितकामस्त्री, शुद्धशीलवती सती ॥ ३॥ विमलानगरीस्थस्य, चन्द्रभूभृत आशिषम् । विज्ञाय विततानन्दं, दधातु हृदि भावतः ॥४॥ विशेषकम् ॥ श्रीनाभेयप्रसादेन, कुशलं वर्ततेऽत्र मे । यत्क्रमाम्भोजसेवायां, देवेन्द्रवृन्दमुत्सुकम् ॥ ५ ॥ प्रिये ? त्वत्कुशलोदन्त-पत्रं प्रेष्यं विधानतः । देशान्तरस्थितानान्तु, पत्ररूपो हि संगमः ॥ ६॥ उदन्तं मामकं ज्ञेय-मिहानन्दप्रदायकम् । सूर्यकुण्डप्रभावेण, मङ्गलान्यजनि प्रिये ॥७॥ अन्यच्च-श्रीपुण्डरीकाचलतीर्थमत्र, समस्ति विघ्नौषविनाशमूलम् । अनेकभव्याः कुतकर्मनाशाः, सिद्धिंगता यत्र भयोज्झितां द्राक् ॥८॥ त्वत्प्रमोदविवृद्ध्यर्थ, लेखोऽयं प्रेषितो मया । यदि For Private And Personlige Only
SR No.008553
Book TitleChandraraja Charitram
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherAjitsagarsuri Shastra Sangraha
Publication Year
Total Pages376
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy