________________
॥चंद्रराजचरित्रम् ॥ ॥१४३॥
चतुर्थोबासे तृतीयः
सर्गः।।
को विभेदः स्या-दुष्टसजनयोरपि ॥२॥ पुनरेते कृतोपकारा इव भवता मन्तव्याः, अन्यथाऽज्ञातकुलशीलयोरावयोः सम्बन्धः कुतः संघटेत, गुणिषु गुणबुद्धयोबहवो विद्यन्ते, दुर्जनेष्वपि योगुणबुद्ध्या प्रवर्तते सैव सत्सु विराजते, पुनरेषामभयदानेन सर्वत्र भवतोयशोवृद्धिर्भविष्यति, आगस्कृतोदण्डनीया एवेति मन्यसे चेदेषांमूर्द्धनि बहुतरंजातमिदमितः प्रभृतीमे कदापीदृशम कृत्यं मनसाऽपि न चिन्तयिष्यन्ति, राजस्तव सुतैव दुर्बलदैवा किमन्ये तत्र कुर्वन्ति । कुष्टिकुमारोऽप्ययं दयाहॊस्ति, इत्यभ्यर्थनां कुर्वाणस्य चन्द्रराजस्य वचनं प्रमाणीकृत्य मकरध्वजस्तान् पश्चाऽपि बन्धनादमोचयत् । तदानींनिजभर्तुमहिमानं प्रकटयितुकामा प्रेमला सभामागत्य शुद्धोदकेन चन्द्रराजचरणौ प्रक्षाल्य तज्जलेन कुष्ठिनः शरीरमसिञ्चत् । ततस्तत्प्रभावेण तत्कालमेव स नीरोगी जातः, तदा नभःस्थितैर्देववृन्दैश्चन्द्रराजस्य जयघोषंविधाय तन्मूर्ध्नि कुसुमवृष्टिविहिता, ततः कनककान्तिः कनकध्वजश्चन्द्रराजचरणयोः पतित्वा स्वाऽपराधक्षमयाभास, सर्वे सभ्या विस्मिताश्चन्द्रराजमहिमानंवर्णयामासुः। ततोदत्ताऽभयदानोमकरध्वजः सिंहलनरेशंसत्कृत्य निजदेशव्यसर्जयत् । अथान्यदा निशीथे स्मृतगुणावलीगुणश्चन्द्रराजः स्वचेतसि व्यचिन्तयम्-दैव ? मद्वासरास्त्वत्र, व्रजन्ति सुखतः परम् । मद्भार्याया गुणावल्याः, न जाने कीदृशी स्थितिः ॥१॥ प्रयाणावसरे पूर्व, मया पञ्जरसेविना । प्रदत्तं वचनं तस्यै, विस्मृतं तत्कथं हहा ॥२॥ तद्यथा-यदाहं मानुषीभावं, प्राप्स्यामि प्रथमं तव । समागम करिष्यामि, सुलभे सर्वसाधने ॥ ३ ॥
तद्वचनन्त्वत्र प्रेमलायाः प्रेम्णि लीनोऽहं विस्मृतवान् । साम्प्रतमपि येन केनाऽप्युपायेन तत्समागमंसाधयाम्यन्यथा मद्वचनंवृथा भविष्यति, यतोयः शुद्धभावेन यमभिकांक्षति स कदापि तेन न विस्मरणीय इति मानवोधर्मः। तस्मायावजीवं
॥१४३॥
For PrivateAnd Personale Only